________________
Jain Education Internati
यत्कर्म्म करोति तदेव स्यात् अन्यत्सर्वं वृथा ४ । पुरुषकारवाद्याह आत्मोपक्रमेणैव विश्वं निष्पद्यते । आत्मा विश्वं सृजति आत्मा पालयति आत्मा संहरति । यावदेते पञ्चवादिनः स्वीयं स्वीयं मतं स्थापयन्ति तावन्मिथ्यात्वं चेत्समवायेन पश्चापि कालादीन् मन्यन्ते तदा सम्यक्त्वं स्यात् । यो भार एकेन द्वाभ्यां त्रिभिश्चतुर्भिरनुत्पाट्यः सन् पञ्चभिर्जनैरुत्पाटितः स्यात् स चेदेकेनोत्पाटितः कथ्यते तर्हि मिथ्या, पञ्चभिरुत्पाटितः कथ्यते तर्हि सम्यक् । तथा विश्वं पञ्चभिर्निष्पाद्यमानमस्ति । तत्रैकं स्थाप्यते तन्मिथ्यात्वम् । समवायो यथा केनापि जीवेन स्थानाद्युपक्रमं कृत्वा वृक्ष आरोपितः, जीवयोगात् कालेन वर्द्धितः, स्वभावेन मधुरादिरसो जातः कर्म्मतश्चिरस्थायी भूतः, भवितव्यतया यथासङ्ख्यं पत्रफलशाखा दिवा (मा) नजनि । इत्थं सर्वस्मिन् जीवाजीवरूपे विश्वे पश्चापि वचांसि ज्ञेयानि । तथात्र नवतन्च्वेऽशीतिशतक्रियावादिन इति नाम्ना पाखण्डिनो भवन्ति, भणन्ति च जीवोऽस्ति क्रियां च करोति । तत्रैके आहुः अस्ति जीवः स्वतो नित्यः कालतः १ | एके आहु अस्ति जीवः स्वतोऽनित्यः कालतः २ । एके आहुः अस्ति जीवः परतो नित्यः कालतः ३ । एके आहुः अस्ति जीवः परतोऽनित्यः कालतः ४ । स्वत इति आत्मस्वरूपेण । परत इति घटादिपदार्थापेक्षया हस्वत्वदीर्घत्ववदिति । एवं जीवपदं चतुर्द्धा कालवाद्याह । इत्थमेव स्वभाव २ नियतीश्वरात्मवादिनः पश्चापि चतुर्द्धा चतुर्द्धा वदन्ति । एवं विंशतिर्जीववादिनो जाताः । एवं अजीव पुण्यपापाश्रव संवरनिर्जराबन्धमोक्षेषु प्रत्येकं प्रत्येकं विंशतिर्वादिनो भवन्ति । एवं सर्वेऽशीतिशतक्रियावादिनो भवन्ति । तत्रेश्वरो नैयायिकैर्मन्यते । मीमांसकैः सर्वत्रक एवात्मा मन्यते । तथाऽक्रियावादिनः 'सर्वं क्षणे क्षणे विनश्यति अतः कारणात् कोऽपि क्रियां न करोति ' ईदृशं वदन्ति । ते चतुरशीतिभेदाः स्युः । तत्रैके इत्थमाहुः नास्ति आत्मा स्वतः
।
For Private & Personal Use Only
www.jainelibrary.org