SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॐ9C% सम्यक्त्वाधिकारः। E0% आवश्यक | दातुं सकृत् अनुप्रदातुं असकद्दातुं च नो मम कल्पते, किन्तु अन्यत्र राजाभियोगाद्याकारेभ्यः राजाभियोगादि विनेत्यर्थः। नियुक्ति # राजाभियोगादौ ददद् धर्म नातिक्रमते । तत्र राजाभियोगो राजाग्रहः, गणो जनवृन्द, बलाभियोगो बलात्कारः, देवतादीपिका। भियोगो देवताग्रहः । गुरुनिग्रहो गुर्वादेशः। वृत्तिकान्तारं दुर्मिक्षम् । तत्र राजाभियोगे कार्तिकश्रेष्ठी दृष्टान्तः, स नैगमाष्टस हस्रमुख्यो हस्तिनापुरे गृहीतसपरिवारजितशत्रुराजाग्रहाल्लिनिनो मास(क्षपण)पारणे स्वयं परिवेषकोऽभूत, लिङ्गी च तदाङ्गुलि चालितवान् कथं ते सम्यक्त्वमिति तेन निर्वेदेन नैगमाष्टसहस्रयुक् श्रीसुव्रताहत्पार्श्वे प्रव्रज्य चतुर्दशपूर्वी द्वादशसमपर्यायः सौधर्मे शक्रत्वं प्राप्तो लिङ्गी च तेनाभियोगेनैरावणोऽभृदिन्द्रं दृष्ट्वा नष्टो गृहीतः शक्र आरूढः द्वे शीर्षे कृते शक्रावपि द्वौ | जातौ । एवं यावन्ति शीर्षाणि करोति तावन्ति शक्रोऽपि रूपाणि । ततो नश्यन् वजाहतः स्वस्थोऽस्थात् । गणाभियोगेन & वरुणो स्थमुशले युद्धे प्रवृत्तः। एवं श्राद्धोऽपि गणाभियोगादन्यतीथिकानां ददाति । देवताभियोगे कोऽपि नवश्राद्धो जातः। पूर्वगोत्रजादिव्यन्तराण्यत्यजत्, सुर्या तवावः सुतश्चापहृताः श्राद्धं च वक्ति कि मां त्यजसि ? श्राद्धेनोक्तं अर्ह| प्रतिमान्ते तिष्ठ तत्रार्चयामि । ततः सुरी तत्र स्थिता गाः सुतं (च) आनयत् । ३ गुरुनिग्रहे बौद्धः श्रावकपुत्रीं छद्मना परि-1 णेतुं कपटश्राद्धो भूत्वा सम्यग् निविष्टे श्राद्धो जातः, छमालोच्य श्रेष्ठिनोद्वाहितः । पृथग् गृहं कृत्वा स्थितः। अन्यदा पितम्यां बौद्ध भिक्षुम्यो भक्तं विधायाग्रहेणाहानाय प्रेषितः । तैरभिमन्त्रितफलदानेन परावृत्तो गृहमेत्य प्रियामृचे भिक्षुभ्यो भक्तं दवः श्राविका नैच्छत् । तत्सेवका भोज्यं कत्तुं प्रवृत्ताः । श्राविकया गुरुम्य ऊचे । तैर्योगप्रतिभेदो दत्तः, स तयाऽम्मसा तस्य दत्तः । बौद्धव्यन्तरा नष्टाः । स भावुके जातेऽवक् किमेतद्भोज्यम् ? । ततः प्रियोक्त्या ज्ञात्वा तत्प्रासुकं ACCORRECTOR ॥ Jain Education Internatio For Private & Personal Use Only R w.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy