SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ तत्र यस्मात् श्रावकः धर्मस्य मूलं सम्यक्त्वं तत्वार्थश्रद्धानरूपं उपसम्पद्यतेऽतस्तद्विधिः तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमइ, सम्मत्तं उवसम्पजइ, नो से कप्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा बंदित्तए वा नमंसित्तए वा पुठिच अणालत्तएणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइम वा साइमं वा दाउं वा अणुप्पयाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेण बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं, से य सम्मत्ते पसत्थसम्मत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिङ्गे सुहे आयपरिणामे पन्नत्ते, सम्मत्तस्स समणोवासएणं इमे पंच अइयारा जाणियब्वा न समायरियव्वा, तंजहा-संका कंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवे (सूत्रम् ) तत्र श्रमणानां यतीनां उपासकः श्रावकः पूर्वमेवादावेव श्रावको भवन् मिथ्यात्वात्तत्त्वाश्रद्धानरूपात प्रतिक्रामति निवर्त्तते। सम्यक्त्वमुप सामीप्येन सम्पद्यते स्वीकुरुते । से तस्य नो कल्पते नो युज्यते । अद्यप्रभृति सम्यक्त्वप्रतिपत्तेरारम्यान्यतीर्थिकां. स्तापसादीन अन्यतीर्थिकदैवतानि रुद्रादीनि अन्यतीर्थिकपरिगृहीतानि वाहेच्चैत्यान्यहत्प्रतिमारूपाणि महाकालवीररुद्रादीनि बोटिकानि वा वन्दितुं स्तोतुं नमस्कत, वा समुच्चये, न कल्पते इति सम्बन्धः। तद्वन्दनादेर्मुक्त्यर्थिनामप्रयोजनात् मिथ्यादृशा स्थिरीकरणादेश्च । तथान्यतीर्थिकैः पूर्व अनालप्तेन सता तान् आलप्तुं सकृद्वादयितुं वार्ता कतुं संलप्तुं पुनःपुनर्वादयितुं, यतस्ते सारम्भाः स्युः, वादिताश्च गृहागमादिप्रसङ्गमारम्भं च कुयुः, शिशूनां च विकथादिप्रसङ्गस्नेहौ स्याताम् । तेषामशनादि LECTROCESCOCCCESS-CCESCA-G k Jain Education Interner For Private & Personal Use Only | www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy