________________
आवश्यक नियुक्तिदीपिका।
तृतीयो विभागः।
CCCCESCHE
॥
२
॥
CASS-RECORRECA%AR
C
मूलगुणा वि य दुविहा समणाणं चेव सावयाणं च ।
ते पुण विभजमाणा पंचविहा इंति नायव्वा ॥ १५५६ ॥ नोश्रुतप्रत्याख्यानं मूलगुणा उत्तरगुणाश्च । मूलगुणाः प्राणातिपातविरत्यादयो विरतिरूपत्वात् प्रत्याख्यानम् । तथोचरगुणाः पिण्डविशोध्यादयोऽप्यशुद्धाहारादिविरतिरूपत्वात प्रत्याख्यान, उत्तरगुणविषयं वाऽनागतादिदशधाप्रत्याख्यानम् ॥ १५५५ ।। मूलगुणप्रत्याख्यानं द्विधा सर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च । सर्वमूलगुणप्रत्याख्यानं पञ्चमहाव्रतानि । देशमूलगुणप्रत्याख्यानं पश्चाणुव्रतानि । एवं उत्तरगुणप्रत्याख्यानमपि द्विधा सर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं च । तत्र सर्वोत्तरगुणप्रत्याख्यानं 'दशविधमणागयमइकतं' इत्याद्यने वक्ष्यते । देशोत्तरगुणप्रत्याख्यानं सप्तविधं, त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि । पुनरुत्तर(गुण )प्रत्याख्यानं द्विधा इत्वरं, साधूनां किश्चिदभिग्रहादिः श्रावकाणां तु चत्वारि शिक्षाव्रतानि, द्वितीयं यावत्कथिकं तच्च नियन्त्रिताख्यं प्रत्याख्यानं यद् दुर्भिक्षादिष्वप्यमग्नं स्यात् । | श्रावकाणां त्रीणि गुणव्रतानि ॥ १५५६ ॥ सर्वमूलगुणप्रत्याख्यानमाह
पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव ।
समणाणं मूलगुणा, तिविहं तिविहेण नायव्वा ॥ १५५७ ॥ प्राणा इन्द्रियोच्ङ्कासाद्या दश, तेषां वधः, प्राणवधादिषु विषयभूतेषु श्रमणानां मूलगुणा आद्यगुणास्त्रिविधत्रिविधेन
CHOCOCC
-
Jain Education Interna
For Private & Personal Use Only
www.jainelibrary.org