________________
Jain Education Inter
॥ १५५२ || प्रतिषेधप्रत्याख्यानमाह अनुकं घृतादि मह्यं दीयताम् । इतरस्त्वाह नास्ति मम तदिति न तु दातुमनिच्छा । aaisi प्रतिषेध एव प्रत्याख्यानं प्रतिषेधप्रत्याख्यानम् । ५ । भावप्रत्याख्यानमाह ' सेस० ' शेषपदानां आगमनोआगमेत्यादीनां साक्षादिहानुक्तानां प्रत्याख्यानानां गाथाव्याख्याप्रतिष्ठा स्वयं कार्येति शेषः । इह भावमिति भावप्रत्याख्यानं इदं वक्ष्यमाणम् -
दुविहं सुअनसुअ सुर्य दुहा पुव्वमेव नोपुवं । पुवसु नवमपुव्वं नोपुव्वसुर्य इमं चैव ॥ १५५४ ॥
तद्भावप्रत्याख्यानं द्विविधं श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च । प्रत्याख्याननामकमेव तं श्रुतप्रत्याख्यानं, प्रत्याख्यानाख्यश्रुतादन्यद् नोश्रुतप्रत्याख्यानं, तत्र श्रुतप्रत्याख्यानं द्विधा पूर्वश्रुत प्रत्याख्यानं नोपूर्वश्रुत प्रत्याख्यानं च । तत्र पूर्वश्रुत प्रत्याख्यानं नवमं प्रत्याख्यानाख्यं पूर्वश्रुत प्रत्याख्यानं, पूर्वश्रुतादन्यत् इदमेव प्रत्याख्यानाध्ययनं आतुर प्रत्याख्यानादि च ॥ १५५४ ॥ नोश्रुतप्रत्याख्यानमाह
नोअपच्चक्खाणं मूलगुणे चैव उत्तरगुणे य । मूले सव्वं देतं इत्तरियं आवकहियं च ।। १५५५ ॥
For Private & Personal Use Only
www.jainelibrary.org