________________
बावश्यक नियुक्तिदीपिका।
तृतीयो विमामः।
1%9A%AA%95%A5%A5%%
नामप्रत्याख्यानं १ स्थापनाप्रत्याख्यान २ द्रव्यप्रत्याख्यानं ३ दातुमिच्छा दित्सा न दित्सा अदित्सा, सैव प्रत्याख्यानं (अदित्साप्रत्याख्यानं ४), प्रतिषेधप्रत्याख्यानं ५, भावप्रत्याख्यानं ६ ॥ १५५१ ॥नामस्थापनाप्रत्याख्याने सुगमे, द्रव्यप्रत्याख्यानमाहदवनिमित्तं दत्वे दवभूओ व(उ)तत्थ रायसुआ। अइच्छापञ्चक्खाणं बंभणसमणा अइच्छत्ति ॥१५५२॥
अमुगं दिजउ मज्झं, नत्थि ममं तं तु होइ पडिसेहो ।
सेसपयाण य गाहा, पञ्चक्खाणस्स भावमि ॥ १५५३ ॥ द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति । तथा द्रव्यभूतोऽनुपयुक्तः सन् यः करोति, तुशब्दाद् द्रव्याणां द्रव्येण चेत्यादि ज्ञेयम् । तत्र राजसुताकथा यथा एकस्य राज्ञः सुता भर्तरि मृते पितुहमागता | धर्मार्थिनी पाखण्डिनां दानं दत्ते । अन्यदा कार्तिको धर्ममास इति मांसं प्रत्याख्याय तत्र मासे मांसं नाहरति पूर्णे च मासे पारणे नैकेषां नानाविधानि मांसानि स्वयं ददति, अन्यदा साधून न्यमन्त्रयत् । तैर्भक्तं लात्वा मांसं निषिद्धम् । सा प्राह किं वः कार्तिको न पूर्णः १ तैरूचे यावजीवं नः कार्तिकः । ततो मांसदोषोक्या सा बुद्धा दीक्षिता। एवं तस्याः प्राग् द्रव्यप्रत्याख्यानं पश्चाद्भावप्रत्याख्यानं जातम् । अदित्साप्रत्याख्यानं हे ब्राह्मण! हे श्रमण! अदित्सेति न मे दातुमिच्छा, न तु नास्ति यत् त्वयाऽयाचि । ततश्चादित्सैव वस्तुनः प्रतिषेधात्मिकेति कृत्वा प्रत्याख्यानम्
Jain Education Interna
For Private & Personal use only
www.jainelibrary.org