________________
आवश्यक नियुक्तिदीपिका ॥
॥४२॥
गृहीते भक्तेऽतीचारः यावत्स्थानागमालोचनकवलोत्पाटनानि ३ गिलिते आहारेऽनाचारः ४ । एवं प्राणातिपातादिष्वतिक्रमा- प्रतिक्रमदियोजना स्वधिया ज्ञेया । तस्यातीचारस्य मिथ्यादुःकृतं । अत्रातिचारशब्देन सामान्यतो दोष एव ज्ञेयस्ततोऽतिक्रमाद्याः । णाध्ययने सर्वेऽत्रान्तर्भवन्ति । अतिचार एकविधादिबहुभेदः स्यादत आह-' पडिकमामि एगविहे असंजमे०'
स्वाध्या___ पडिक्कमामि एगविहे असंजमे । पडिक्कमामि दोहिं बन्धणेहिं-रागबन्धणेणं दोसबन्धणेणं ।
याद्यति| पडि० तिहिं दण्डेहिं-मणदण्डेणं वयदण्डेणं कायदण्डेणं । पडि० तिहिं गुत्तीहिं-मणगुत्तीए वय
चाराः॥ गुत्तीए कायगुत्तीए । ( सूत्रम् ) ___ प्रतिक्रमामीति प्राग्वत् , एकविधे एकभेदेऽसंयमेऽविरतिरूपे सति निषिद्धकरणादिना योऽतिचारः कृतः स्यात्तस्य मिथ्या मे दुःकृतमिति सम्बन्धः।१। प्रतिक्रमामि द्वाभ्यां बन्धनाभ्यां योऽतिचार इति । बध्यते कर्म येन तद्वन्धन, बन्धनद्वयमाहरागबन्धनेन रज्यते आत्मा विषयेष्वनेनेति रागः स एव बन्धनं, द्विष्यति परेभ्योऽनेनेति द्वेषः स एव बन्धनं । २। प्रतिक्रमामि त्रिभिर्दण्डैः, दण्ज्यते चारित्रैश्वर्यहान्याऽऽत्मा एभिरिति दण्डाः यथा-मन एव दुःप्रयुक्तं दण्डः पापहेतुत्वात् मनोदण्डः, एवं वाग्दण्डकायदण्डावपि । मनोदण्डे कोंकणखन्तकोऽधःशिरा ऊर्ध्वजानुर्ध्यानपरः 'खरो वातोऽस्ति, चेन्मम पुत्रा रक्षा कृत्वा क्षेत्राणि कुर्यस्तदा बहनं स्यादिति ध्यातवान् गुरुभिर्ज्ञानाद्वारितः । वाग्दण्डे कोऽपि यतिर्गमनागमनालोचने शूकरवृन्दं दृष्टमित्यवक् । क्षत्रियैः श्रुत्वा गत्वा तद्भुतं । कायदण्डे चन्द्ररुद्राचार्योऽवन्त्यां रथयात्रादर्शनायागतो बहवः साधवो
॥४२॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education in