________________
तत्र दोषव्याख्यानं सोत्सर्गापवादप्रायश्चित्तं सभङ्गकमन्यग्रन्थेभ्यो ज्ञेयम् । एवं योऽतीचारोऽभूत्तस्य मिच्छा। अथ स्वाध्यायायतिचारप्रतिकमणं 'पडिक्कमामि चाउकालं.'
पडिक्कमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिलेहणयाए अप्पमजणाए दुप्पमजणाए अइक्कमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं । (सूत्रम् )
प्रतिक्रामामि तस्मादतिचाराद्यो मया दैवसिकोऽतिचारः कृतः, कथं ? चतुःकालं दिनराच्याद्यान्त्ययामेषु स्वाध्यायस्य सूत्रपौरुषीरूपस्याकरणतया । तथोभयकालं आद्यान्त्यपौरुष्योर्भाण्डोपकरणस्य पात्रवस्त्रादेरप्रत्युपेक्षणया मूलत एव चक्षुषोऽनिरीक्षणेन । दुःप्रत्युपेक्षणया दुष्टु अनुपयुक्तत्वेन निरीक्षणया, अप्रमार्जनया पात्रादेग्रहणकाले मूलत एव रजोहरणादिनाऽस्पर्शनया । दुःप्रमार्जनया चक्षुषाऽनिरीक्ष्याविधिना च प्रमार्जनया । तथातिक्रमे व्रतानां किश्चिद्भङ्गे, व्यतिक्रमेऽल्पभलेऽतीचारे देशतो भङ्गेऽनाचारे सर्वभने यो मया दैवसिकोऽतिचारः कृतः, एवं पाक्षिके पक्षमध्येऽतिचारः चतुमासिकादिष्वप्येवमेव । क्वापि पाठे 'जो मे देवसिओ' इत्याद्यत्र न पठन्ति परं वृत्तिचूयोरस्ति, ततोऽयमेव पाठ: प्रमाणं । तत्रातिक्रमादीनां लक्षणे दृष्टान्तः-आधाकर्मनिमन्त्रणं प्रतिशण्वाने ग्रहीष्ये इति श्रद्दधाने साधौ चारित्रस्यातिक्रमः स्यात् यावत्पात्रकप्रतिलेखनं उपयोगकृतिश्च १ । ततः पदभरणाद्यो व्यतिक्रमः स्याद्यावदात्रा भिक्षा दातुमुत्पाटिता २ । ततो
Jain Education inte
For Private & Personal use only
www.jainelibrary.org