SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणाध्ययने गोचरचर्यातिचाराः॥ बावश्यक कमिका, यत्र च पूर्व स्यात् सा पौरकर्मिका भिक्षा तया, तथाऽदृष्टाहतयाऽदृष्टादाननिक्षेपमानीतया। 'दग' सचित्तोदकनियुक्ति- संसृष्टकरादिनाऽऽहतया । एवं 'रय०' रज: सचित्तं तत्संसृष्टकराद्याहृतया । यस्याऽऽदानेऽन्नादेः परिशाटः छर्दनं स्यात् सा दीपिका परिशाटनिका मिक्षा । भाजनस्थमन्यद् द्रव्यं परिष्ठाप्य, तेन यद् द्रव्यं दीयते सा पारिष्ठापनिका भिक्षा। यस्यां साधुर्विशिष्ट द्रव्यं याचित्वा लाति साऽवभाषणभिक्षा तया । तथा कियदत्र भण्यते, यत्किञ्चिदशनादि उद्गमेनाधाकादिरूपेण उत्पाद॥४१॥ नया धात्रीपिण्डादिरूपया एषणया शङ्कितादिरूपया अपरिशुद्धं परिगृहीतं आत्तं । तथाऽशुद्धं आदाय परिभुक्तं वा यत्, न तु परिष्ठापितं विधिवत् स्थण्डिले पुनःकरणादिना । तत्रोद्गमः साध्वर्थ पिण्डप्रादुर्भावः, तत्र षोडशदोषाः-आधाकर्म १ औद्देशिकं २ पूतिकर्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रादुःकारः ७ क्रीतं ८ प्रामित्यं ९ परावर्तितं १० अभ्याहृतं | ११ उद्भिन्नं १२ मालाहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्यवपूरक: १६ एते षोडश । तथा उत्पाद्यन्ते साधुनेति उत्पादना साधुभवा तस्या दोषा:-धात्रीपिण्डः १ दौत्यपिण्डः २ निमित्तपिण्डः ३ आजीविकपिण्डः ४ वनीपकपिण्डः ५चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वपश्चात्संस्तवः ११ विद्यापिण्डः १२ मन्त्रपिण्डः १३ चूर्णपिण्डः १४ योगपिण्डः १५ मूलकर्म १६ एते षोडश । तथा एष्यते वीक्ष्यते साधुना ग्रहणकाले इत्येषणा ना तस्या दोषाः-शङ्कितदोषः १ प्रक्षितदोषः २ निक्षिप्तदोषः ३ पिहितदोषः ४ संहृतदोषः ५ दायकदोषः ६ उन्मिश्रदोषः ७ अपरिणतदोषः ८ लिप्तदोषः ९ छर्दितदोषः १० एते दश । एवं द्विचत्वारिंशत् पिण्डदोषाः। तैः शुद्धं गृह्णीयात् । तथा संयोA जनादोषः १ अप्रमाणदोषः २ अङ्गारदोषः ३ धूमदोषः ४ कारणदोषः ५ एते पञ्च ग्रासैषणाया दोषाः एतैर्विशुद्धं भुञ्जीत । ४१॥ Jain Education in imal For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy