________________
Jain Education Inter
मूर्च्छति । एवं साधुरपि भक्ताम्बुशुद्धिं पश्यन् रूपे न मूर्च्छति । काऽसावित्याह- भिक्षाचर्या भिक्षाक्रिया । इह लामाला भयोः समचित्तोऽदीनमनो भिक्षेत् । तस्यां योऽतिचारस्तस्मात् प्रतिक्रमामि । कथमतिचारोऽदिभूत्याह ' उग्घा० ' उद्घाट अदत्तार्गलं ईषत्स्थगितं वा कपाटं तदुद्घाटनया प्रेरणयाप्रमार्जितादिभ्योऽतिचारः । श्ववत्सदारकसंघट्टनया, दारको बालः, मण्डीप्राभृतिका बलिप्राभृतिका स्थापनाप्राभृतिका । आसां गाथा: 'मंडीपाहुडिया साहुमि आगए अग्गक्रूरमंडी य । अन्नंमि भायणंमि व काउं तो देइ साहुस्स ॥ १ ॥ तत्थ पवत्तणदोसो न कप्पए तारिसा सुविहियाणं। मंडी य अग्गक्रूरशिखा तामन्यस्मिन् भाजने कृत्वा ततः साधवे दत्ते सा मंडीप्राभृतिका । तत्र प्रवृत्तिदोषो लगति | लोकस्तथा करोतीति प्रवृत्तिः । पश्चात्कर्म्माद्या दोषाश्च स्युः । यस्त्वग्रपिण्ड इति साधोर्निषिध्यते सोऽव्यापारितान्नशिखारूप एव दृश्यते । 'बलिपाहुडिया भन्नइ चउद्दिसं काउ अच्चणियं ' ॥ २ ॥ बलिप्राभृतिका सा यत्र साधावायाते चतुर्दिक्ष्वच | कृत्वाsatar fear सिक्थान् 'अरिंगमि विछोदूणं, सित्थ तो देइ साहुणो भिक्खं । सावि न कप्पइ ठवणा जामिखायराण ठवियाओ' || ३ || या भिक्षाचराणां कृते स्थापिता तां ददतः स्थापनाप्राभृतिका । ' संकिए ' आधाकम्र्म्माद्यन्यतमदोषेण शङ्किते आते । सहसाकारे प्रमादादिना सत्यकल्पये आते । शङ्कितसहसा कारयोरात्ताहारस्याऽविधिना त्यागेऽत्यागे वाऽतिचारः । तथाऽनेषणयाऽशुद्धाहारग्रहणेन, प्राणिनो रजसाद्या भोजने आहारे सम्पद्यन्ते विराध्यन्ते व्यापाद्यन्ते वा यस्यां भिक्षायां सा प्राणिभोजना तया, प्राणिसंघट्टनादि च दातुर्वा साधोर्वा सकाशाज्ज्ञेयं । एवं बीजभोजनायां सचित्तबीजसंघट्टादि, हरितभोजनायां हरितसंघट्टादि, यत्र पश्चात् हस्तक्षालनाद्यर्थं सचित्तजलादिविराधना स्यात् सा पाश्चा
For Private & Personal Use Only
www.jainelibrary.org