________________
इच्छामि पडिक्वमिङ पगामसिज्जाए निगामसिज्जाए संथाराउवट्टणाए परियट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूइए कक्कराइए छिइए जंभाइए आमोसे ससररकामोसे आउलमाउलाए सोअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ (सूत्रम्)
प्रकामं चातुर्यामं घोरनिद्रया वा शयनं प्रकामशय्या । यद्वा प्रकामा उत्कटा संस्तारोत्तरपट्टाधिका प्रावरणमाश्रित्य कल्पत्रयाधिका वा शय्या तया योऽतिचारस्तस्य मिथ्यादुःकृतं । प्रकामशय्यैव प्रत्यहं क्रियमाणा निकामशय्या । इह शयनेऽयं विधिः । पूर्व वामपार्श्वे सुप्यते । पादौ च सङ्कोच्य आकाशे स्थाप्यते । ततोऽशक्तो भुवं प्रमृज्य पादौ मुवि मुच्यते । संस्तारे | उद्वर्त्तनं आदौ वामपार्श्वे सुप्तस्य दक्षिणपार्श्वेन वर्त्तनं उद्वर्त्तना । पुनर्वामेन वर्तनं परिवर्तना । तत्र यो योऽतिचारः । इहाप्रमृज्योद्वर्तनादिकुर्वतोऽतिचारः । एवं आकुश्चनाऽङ्गसङ्कोचः, प्रसारणाऽङ्गनिक्षेपः तया आकुश्चनप्रसारणयात्र कुकुटदृष्टान्तोक्तं विधिमकुर्वतोऽतिचारः । 'कुक्कुडिपायपसारे, जह आगासे पुणोवि आउंटे। एवं पसारिऊणं, आगासे पुणोवि आउंटे ॥१॥ | अइकुंडिय सिय ताहे, जहियं पायस्स पण्हिया ठाइ। तहियं पमजिऊणं, आगासेणं तु नेऊणं ।।२॥ पायं ठावित्तु तहिं,
आगासे णे (चे)व पुणोवि आउंटे। एवं विहिमकरेंते, अइयारो तत्थ से होइ' ॥३॥ षट्पदिकानां संघट्टनया घर्षणेन, कूजिते | इति कासिते विधिना मुखवस्त्रं करं वाऽऽस्येऽदत्वा कृते सति, कर्करायिते विषमा धर्मवतीत्यादिशय्यादोषोच्चारणारूपे
16
...
Jain Education inte
For Private & Personal use only
www.jainelibrary.org