SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥३९॥ मिआ उद्दविआ ठाणाओ ठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ॥ (सूत्रम्) मा प्रतिक्रम इच्छामि प्रतिक्रमितुं ऐर्यापथिक्या विराधनाया योऽतिचारस्तस्य, इच्छामीति सर्वत्र मनःसावधानताज्ञप्त्यै । तत्र ईरणं णाध्ययने ईर्या गमनं तत्प्रधानः पन्थाः ईर्यापथः अथवा ईर्यापथः साध्वाचारस्तत्र भवा ऐर्यापथिकी तया विराधनया । आदौ सामान्ये- गमनानाह 'गमणा' गमनं चागमनं च गमनागमनं तत्र । कथं जातेत्याह प्राणास्त्रसास्तेषां क्रमणे पादेन पीडने, एवं बीजहरिता तिचाराः क्रमणयोरपि । हरितग्रहणात्सर्वो वनस्पतिज्ञेयः । 'ओसा' अवश्यायः ठारः, उत्तिंगा गर्दभाकारा जीवाः भुवि खड्डे खनन्तो भृयका (भूयुक्ताः) वा कीटिकादिनगराणि वा, पनकः पश्चवर्णोल्लिः, दकमृत्तिका चिक्खिल्लं दकमृद्वा, एतेनाऽप्कायपृथ्वीकायौ ज्ञेयौ । मर्कटसन्तानं कोलिकजालं। एषामवश्यायादीनां सङ्क्रमणे आक्रमणे, तथा कियन्तो भेदेनोच्यन्ते ? परं 'जे मे येऽन्येपि मया जीवा विराधिता दुःखं प्रापितास्ते च एकेन्द्रियाः पृथव्याद्याः, द्वीन्द्रियाः कृम्याद्याः, त्रीन्द्रियाः कीटिकाद्याः, चतुरि| न्द्रियाः लूताद्याः, पश्चेन्द्रिया नारकाद्याः (मूषकाद्याः)। अभिहताः अभिमुखभागच्छन्तः पादादिना हताः उत्क्षिप्य विक्षिप्ता वा कार्यारम्भ वा निषिद्धाः, वर्जिताः पुञ्जीकृताः धूल्यादिना वा स्थगिताः, श्लेषिताः खटिकावद् भुवि घृष्टाः कुड्यादौ लिप्यमाने वा तत्र लगिताः श्लेष्मादिना वा श्लेषतः, सङ्घातिताः पोट्टलादिषु बद्धाः, सङ्घट्टिता ईषत्स्पृष्टाः, परितापिता आतपाग्निदुर्वाक्यादिना खेदं प्रापिताः, क्लामिता अतिभारक्षुदादिना ग्लानिं प्राप्य जीवितशेषाः कृताः। उपद्राविताः उत्रासिताः करांहयादिधूपद्रुता वा । स्थानादन्यस्थानं सङ्क्रामिताः, जीविताद् व्यपरोपिताः मारिता इत्यर्थः, एवं योऽतिचारस्तस्य मिथ्या मे दु:कृतं । अथ त्वग्वर्त्तनातिचारमाह 'इच्छा० पगाम' Tel॥३९॥ Jain Education al For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy