SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ देवसिकस्य ज्ञानाद्यतिचारस्य मिथ्येति प्रतिक्रमामि दुःकृतमिदं मेऽकर्तव्यमित्यर्थः। तत्र कषायाणां 'जं खंडियं' इति कोऽर्थः साधूनां संज्वलनकषाया एव स्युस्तेषां चात्यर्थ दुष्टभावेन प्रतिभागपरावतः स्यात्तेन संज्वलनतायाः खण्डना विराधनाऽपि । अत्र 'पडिकमामी 'ति व्यापकपदस्यार्थज्ञप्त्यै गाथा 'पडिसिद्धाणं' | पडिसिद्धाणं करणे, किच्चाणमकरणे पडिक्कमणं । असद्दहणेय तहा विवरीयपरूवणाए य ॥१२६८ ॥ प्रतिषिद्धानां अकालस्वाध्यायादीनां करणे, कृत्यानां कालस्वाध्यायादीनां अकरणे, जिनोक्तानां अश्रद्धाने च विपरीतप्ररूपणायां च वितथकथने च प्रतिक्रमणं स्यात् । पडिकमामिशब्देनैतेऽर्थाः स्युरिति ज्ञेयं ॥ १२६८ ॥ अनया युक्त्या सूत्राण्यनुगम्यानि, यथाऽत्र सामायिक प्रतिषिद्धौ रागद्वेषौ तयोः करणे, तथा कृत्यं तन्निग्रहस्तस्याकरणे तथा सामायिकं मोक्षहेत्वित्यश्रद्धाने न समभावे सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणं स्यादेवं सर्वसूत्रेष्वपि योज्यं । यथा चत्वारो मंगलं इति मङ्गले प्रतिषिद्धोऽमङ्गलाध्यवसायस्तत्करणे प्रतिक्रमामि शब्दः स्यादित्यादि । एवं सामान्यतः प्रतिक्रमणमुक्तं । अथ विभागेनोच्यते । तत्रादौ गमनातिचारमाह ' इच्छामि० इरिया०' प इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे पाणकमणे बीयकमणे हरिय. कमणे ओसाउत्तिंगपणगदगमहिमकडासंताणासंकमणे जे मे जीवा विराहिया एगिदिया बेइंदिया तेइंदिया चउरिंदिया पंचिंदिया अभिहया वत्तिआ लेसिया संघाइआ संघट्टिआ परिआविआ किला Jain Education a l For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy