SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ प्रतिक्रममाध्ययन देवसिका| तिचारालोचना॥ ॥३८॥ प्रगृहीता ६। त्यागाहं यद् क्रोधादीनां, पञ्चानां महाव्रतानां प्राणातिपातविरत्यादीनां, षण्णां जीवनिकायानां पृथ्व्यादीनां, सप्तानां पिण्डैषणानां पिण्डस्य भक्तस्य एपणा ग्रहणप्रकाराः ताश्माः 'संसट्ठ १ मसंसट्ठा २ उद्धृड ३ तह अप्पलेविया चेव ४ । उग्गहिया ५ पग्गहिया ६ उझियधम्मा य सत्तमिया ७, । गाथानुलोम्यादादौ संसृष्टोक्ताऽन्यथादौ असंसृष्टा ततः संसृष्टा । तत्राऽसंसृष्टाऽखरण्टिताभ्यां हस्तमात्राभ्यां कारणे स्थविरकल्पिनः पुरम्पश्चात्कर्मदोषपरिहारेण गृह्णतोऽसंसृष्टा पिण्डैषणा १, खरण्टितहस्तमात्राभ्यां भक्तं गृह्णतः सर्वर्षेः संसृष्टा २, स्वयोगेनानं उद्धतं गृह्णतः उद्धृता ३, अलेपं पृथुकादि लातोऽल्पलेपाऽल्पशब्दोऽभावे ४ । गृहिमुक्त्यर्थ पात्रे क्षिप्तान्नं गृहतोऽवगृहीता ५। चेत्कोऽप्येति तदा ददामीति भोक्तुं वा करे गृहीतं भक्तं गृह्णतः प्रगृहीता ६। त्यागाई यद् द्विपदाद्या नेहते तद त्यक्तं वा लात उज्झितधर्मा पिण्डेषणा ७ । सर्वत्रापि सचित्ताम्बुलेपान्तरायादिदोषत्यागो ज्ञेयः । तत्र जिनकल्पादौ उद्धताद्याः पञ्च, स्थविराणां तु सप्त स्युः । अन्ये पठन्ति 'सत्तण्हं पाणेसणाणं' ताश्चेमा एव । परं तुर्यायां आयामसोवीरकादि निर्लेपं ज्ञेयं । अष्टानां प्रवचनमातृणां प्रवचनदेहस्य पालनान्मातृवन्मातरः गुप्तिसमितयः। तत्र गुप्तयः ३ प्रवृत्तिनिवृत्तिरूपाः, समितयस्तु प्रवृत्तिरूपाः पञ्च, यतः 'समिओ नियमा गुत्तो गुत्तो समियत्तणमि भइयो । कुसलवयमुदीरंतो जं वयगुत्तो वि समिओ वि।समितो गुप्त एव स्याद्गुप्तस्तु समितत्वे भाज्यः, यदि चेष्टारहितस्तर्हि गुप्त एव न तु समितः, यदि च शुभचेष्टस्तदा गुप्तः समितश्च । तदाह कुशलवाचं निदोषवाचं उदीरयन् वदन् यदचोगुप्तः समितोऽपि स्यात् । नवानां ब्रह्मचर्यगुप्तीनां पुरोव्याख्येयानां तथा क्षान्त्यादौ दशविधे श्रमणधर्मे श्रमणानामेते श्रामणा योगा व्यापारास्तेषां यत्खण्डितं देशतो भग्नं विराधितं सुतरां भग्नं न पुनरभावमापादितं । तस्य | जिनकल्पादौ उद्धृताद्याः पञ्च थाना प्रवचनमातॄणां प्र ॥३८॥ For Private & Personal Use Only Jain Education inte Twww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy