SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सिद्धे नमंसिऊणं, संसारत्था य जे महाविजा। वोच्छामि दंडकिरियं, सबविसनिवारणिं विज१२६६॥ M सिद्धान् , संसारस्थाश्च महावैद्या ये केवल्याद्याः तांश्च नमस्कृत्वा कषायाणां दण्डक्रियां निग्रहक्रियां सर्वविषनिवारणी || वक्ष्ये ॥ १२६६ ॥ सा चैवं 'सवं' सवं पाणाइवायं पञ्चकाई मि अलियवयणं च । सबमदत्तादाणं, अब्बभ परिग्गहं स्वाहा ॥१२६७॥ सर्व प्रत्याख्यात्येषो नागदत्तः, स्वाहेति मन्त्रपदं परेषां पापविषनिवारणाज्ञप्त्यै प्रयुक्तं ॥ १२६७ ॥ ततः स उत्थितः पितृभिरुक्तोऽपि तां क्रियामनिच्छन् पुनः पपात । एवं द्विः, तृतीयवेलायां तत्प्रपद्य तेन सह चलितः, प्राग्भवं श्रुत्वा प्रत्येकबुद्धो भूत्वा सिद्धः। एवं भावप्रतिक्रमणं । ननु किं पुनः पुनः प्रतिक्रम्यते ? उच्यते वैद्यदृष्टान्तोऽत्र यथा-राजा सुतस्य मा भूद्रोग इति वैद्यानूचे-कीदृशा वो योगास्तेष्वेको जगौ-मम योगा रोगान् घ्नन्ति आरोग्ये च बलरूपादि वर्द्धयन्ति ततस्तेन सुतश्चिकित्सितः । एवं प्रतिक्रमणमपि भूतभाविदोषान् हन्त्यदोषत्वे च चरणनैर्मल्यं करोति । उक्तोऽयं नामनिष्पन्नो निक्षेपः। अथ सूत्रालापकनिष्पन्नः स च सूत्रे सति स्यात्तत इदं प्रतिक्रमणसूत्रं 'करेमि भंते सामा०' आदौ सामायिकोच्चारः समताभावस्थेनैव प्रतिक्रन्तव्यं इति ज्ञापनाय कर्मविघाताय च । अथ मङ्गलपूर्व प्रतिक्रन्तव्यं इत्याह 'चत्तारि मंगलं' चत्तारि मंगलं अरिहंता, मंगलं सिद्धा, मंगलं साह मंगलं, केवलिपण्णत्तो धम्मो मंगलं । चत्वारि मङ्गलानि यथार्हन्तो मङ्गलमित्यादि । साधुग्रहणेनाचार्योपाध्याया अप्यात्ताः । धर्मः श्रुतचारित्र मेदाद् द्विधा, ॥ Jain Education in a For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy