SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति- दीपिका सिजायर ३ रायपिंड ४ किइकम्मे । ५ वय ६ जिट्ठ पडिक्कमणे ८ मासं ९ पञ्जोसवण १० कप्पे' । तेषामचेलत्वं निःकारणे प्रतिक्रमश्वेतमानोपेतपाटलिपुत्रीयरूपकाष्टादशहीनमूल्यवस्त्रपरिभोगेन, क्षेत्रकालापेक्षया तु कृत्स्नवस्त्रपरिभोगेऽप्यचेलता १। औद्दे- INणाध्ययने शिक २ शय्यातर ३ राजपिण्डानां त्यागः ४ कृतिकर्म ज्येष्ठक्रमेण ५ व्रतानि पश्च ६ पुरुषो ज्येष्ठः ७ प्रतिक्रमणं द्विसन्ध्यं - प्रतिक्रमण८ मासकल्पस्थितिः ९ वर्षासु पर्युषणाप्रतिक्रमणादनु स्थानमेव १० ॥ १२४३ ।। ' पडि' संख्या ॥ पडिकमणं देसियं, राइयं च इत्तरियमावकहियं च। पस्कियचाउम्मासिय, संवच्छर उत्तिमटे य १२४४ प्रतिक्रमणं द्विधा इत्वरं यावत्कथिकं च । तत्राद्यं देवसिकं रात्रिकं पाक्षिकं चातुर्मासिकं सांवत्सरिकं च । द्वितीयं महावतादि । उत्तमार्थेऽनशने च प्रतिक्रमणं । निवृत्तिरूपत्वात्सर्वेषां प्रतिक्रमणत्वं । दैवसिकरात्रिकाभ्यां शोधितेऽपि पाक्षिकादि किमिति ? उच्यते 'जह गेहं पइदियहंपि, सोहियं तहवि परकसंधीए । सोहिजइ सविसेसं, एवं इहयपि णायवं॥१॥ यथा गृहं प्रतिदिवसमपि शोधितं प्रमार्जितं पक्षसन्धिषु सविशेषं शोध्यते प्रमायते एवमिह प्रतिक्रमणेऽपि ज्ञातव्यं ॥ १२४४ ॥ | यावत्कथिकमाह 'पंच' पंच य महब्बयाई, राईछट्ठाइ चाउजामो य । भत्तपरिण्णा य तहा, दुण्हंपि य आवकहियाई ॥१२४५ । आद्यान्त्याहतोः पञ्चमहाव्रतानि रात्रिभुक्तिविरतिषष्ठानि, चातुर्यामो मध्यमार्हतां । भक्तपरिज्ञा चानशनं व्येषामपि आद्यान्त्याहतोर्मध्यमानां यावत्कथिकानि यावजीवपाल्यानि ।। १२४५ ॥ पुनरित्वरमाह ' उच्चा' | |३३॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy