________________
Jain Education O
बावीसं तित्थयरा, सामाइयसंजमं उवइसंति । छेओवहावणयं पुण, वयन्ति उसभो य वीरो य ॥१२४३ ॥
सामायिकसंयमं व्यपदिशन्ति, कोऽर्थः तेषां सामायिकादानक्षणे एव व्रतेषु स्थाप्यते । 'छेओ' पूर्वपर्यायछेदेन व्रतानामुपस्थापना छेदोपस्थापनं द्वितीयचारित्रं ऋषभवीरौ वदतः । तयोस्तीर्थे हि दीक्षितः शस्त्रपरिज्ञाध्ययनावगमं यावत् सामायिकसंयतः । एवं प्रागभूदधुना तु षड्जीवनिकाध्ययनस्य सूत्रार्थाभ्यामवगमेन सम्यगपराधस्थानानि त्यजन् व्रतेषु स्थाप्यते इति निरतिचारः। सातिचारः पुनर्मूलप्रायश्चित्तं प्राप्त उपस्थाप्यते । अन्योऽप्ययं भेदः सामायिकसंयता हि मध्यमार्हतां विदेहार्हतां च मुनयस्ते चतुर्षु स्थिताः, यथा 'सिञ्जायरपिंडे य १ चाउज्जामे य २ पुरिसजिडे य ३ । किकम्मस्स य करणे ४, चत्तारि अवट्ठिया कप्पा' । तेषां शय्या तरपिण्डो वर्ज्य : १, चतुर्यामो धर्म्म: २, पुरुष ज्येष्ठो धर्म्मः ३, पर्यायज्येष्ठानां कृतिकर्म्मणो वन्दनस्य करणं ४, एते चत्वारः कल्पाः सामाचार्योऽवस्थिता निश्चिता एव । तथा ' आचेलुक्कु १ देसिय २ सपडिकमणे य ३ रायपिंडे य, ४ । मासं ५ पञ्जोसवणा ६ छप्पेएणवडिया कप्पा'। षडप्येते कल्पा अनवस्थिता अनिश्चिताः कदापि स्युर्नवेत्यर्थः । तत्र 'आचेलुकिति' अचेलकत्वं अवस्त्रत्वं, यदि वस्त्रोपरि राग उत्पद्यते तदाऽचेला एव स्युर्यदि रागो न जायते तदा बहुमूल्यानि मानाधिकानि विचित्राण्यपि वस्त्राणि गृह्णन्ति । १ । तथा औद्देशिकं तस्यार्थे कृतं न कल्पते अन्यार्थे कृतं तु कल्पते । २ । अती चारे सति सप्रतिक्रमणा अन्यथा त्वप्रतिक्रमणा । ३ । दोषभावे राजपिण्डं त्यजन्ति निर्दोषं तु गृह्णन्ति । ४ । दोषभावे मासकल्पमध्येऽपि यान्ति निर्दोषत्वे तु चिरमपि तिष्ठन्ति । ५ । पर्युषणा वर्षासु अवस्थानं तच्च विराधनासम्भवे स्यान्नान्यथा | ६ | छेदोपस्थापनिकास्तु भरतैरवतयोराद्यान्त्याईन्मुनयस्ते दशविधे कल्पेऽवस्थिता एव । यथा ' आचेलुक्कु १ देसिय २
For Private & Personal Use Only
www.jainelibrary.org