________________
Jain Education Int
आवर्त्तादिशब्दादावश्यकेषु युगपत्कायवाग्व्यापारो भणितः परं द्वयोः कायवाचोरेकदा वन्दनक्रिया निषिद्धा, 'जुगवं दो नत्थि उवओगा' इति वचनादतोऽयुक्तोऽयं व्यापारः ।। १२३१ ।। अथ प्रत्यवस्थानं ' भिन्न ' भिन्नविस निसिद्धं, किरियादुगमेगया ण एगंमि । जोगतिगस्स वि भंगिय, सुत्ते किरिया जओ भणिया ॥
पृथग्वस्तुविषयं क्रियाद्वयं एकदा निषिद्धं नैकस्मिन् वस्तुनि, एकवस्तुविषयानुयोगत्रयक्रियाप्यविरुद्धा, यतः यस्मिन् सूत्रे भङ्गा व्याख्यायन्ते 'दुविहं दुविहेणमित्यादिवत् तस्मिन् भङ्किके श्रुते व्याख्यायमाने योगत्रिकस्यापि क्रिया भणिता । भंग गुणतो वट्टतिविहेवि झाणम्मि ' तत्र मनोवाग्व्यापारौ स्पष्टौ । द्विकसंयोगादिभङ्गकदर्शनार्थमक्षांगुल्यादिचालनात्कायव्यापारोऽपि । अन्ये त्वाहुः एकस्मिन् समये क्रियाद्विके उपयोगो निषिद्धो न पुनः क्रियामात्रं यतो ' जोगति - यस्से' त्यादि ॥। १२३२ ॥ ' सीसो '
सीसो पढमपवेसे, वंदिउमावस्तिआए पडिक्कमिडं | बितियपर्वसंमि, पुणो वंदइ किं चालणा अहवा ॥
वन्दित्वाssवश्यक्या प्रतिक्रम्यावग्रहान्निःसृत्य द्वितीयप्रवेशे ततः किं वन्दते १ उच्यते || १२३३ || ' जह ' जह दूओ रायाणं, णमिडं कज्जं निवेइउं पच्छा। वीसज्जिओवि वंदिय, गच्छइ साहूवि एमेव ॥१२३४ ॥ यथा दूतो राजानं नत्वा कार्य निवेद्य विसृष्टोऽपि वन्दित्वा गच्छति एवमेव साधुरपि प्रथमं वन्दित्वाऽपराधं क्षामयित्वा पुनर्वन्दते । परं अखण्ड सूत्रत्वात्सर्वमावश्यिक्या हीनं गुरुपादपतित एव भणति || १२३४ ॥ ' एवं '
For Private & Personal Use Only
www.jainelibrary.org