SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Education Int तिलादिसचित्तादिद्रव्यानुज्ञाऽस्ति । क्षेत्र कालानुज्ञे स्पष्टे । भावे आचाराद्यनुज्ञा, इह भावानुज्ञयाधिकारः || १२२५ ॥ अथ गाथानुक्तस्याप्यवग्रहस्य निक्षेपः 'णामं ' मंठवणा दविए, खित्ते काले तहेव भावे य । एसो उ उग्गहस्सा, णिरकेवो छविहो होइ ॥ १२२६ ॥ द्रव्ये सचित्तादिद्रव्यावग्रहः सचित्तादिद्रव्याणां प्रमाणेन मर्यादा । क्षेत्रे ४ दिक्षु सक्रोशं योजनं, काले वर्षासु चत्वारो मासाः, ऋतुबद्धे मासः, भावे शस्तो ज्ञानादेर्मर्यादापालनं, अशस्तः क्रोधादेरवग्रहणं । यद्वा 'देविंदरायगिहवइ, सागारिसा - उग्गहो तह य । पंचविहो पण्णतो, अवग्गहो वीयरागेहिं ' ॥ १ ॥ देवेन्द्रोऽत्र सौधर्मेन्द्रः धर्म्म कुर्व्वतामाद्योऽस्यावग्रहः मर्यादापालनं १ ततो राजा चक्रयादिः २ गृहपतिर्ग्रामेशः ३ सागारिको गृहेशः ४ साधम्मिकोऽग्रे वसतिस्थः साधुः ५ अत्र ज्ञानदर्शनादिभावावग्रहेण साधर्भिकावग्रहेण वाधिकारः 'आयप्यमाणमित्तो चउद्दिसिं होइ उग्गहो गुरुणो । अणणुष्णातस्स सयान कप्प तत्थ पसरिउं' || २ || गुरोरूर्ध्वस्थस्य निविष्टस्य वात्मप्रमाणमात्रोवग्रहश्चतुर्दिक्षु स्यात् । अननुज्ञातस्यानुज्ञारहितस्य ।। १२२६ ।। अत्र नियुक्तिकारः ' बाहि बाहिरखित्तंमि ठिओ, अणुन्नवित्ता मिउग्गहं फासे । उग्गहखेत्तं पविसे, जाव सिरेणं फुसइ पाए ॥ वन्दको बहिःक्षेत्रे स्थितोऽनुज्ञाप्य मितावग्रहं स्पृशेत् रजोहरणेन प्रमृज्यावग्रहक्षेत्रं प्रविशेत् । कियद्दूरमित्याह - यावति क्षेत्रे स्थितः शिरसा स्वमौलिना गुरुपादौ ' संफासं खामेमि खमासमणो देवसियं वहकमं ' वदन् पार्ण्यनुत्पातेन स्पृशेत् ' For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy