________________
अण्णतराए, सबाओ ण राईदिए सम्भवन्ति, तेण अण्णतरगहणं, एका वा दो वा कता होजा' । तास्वेव किश्चिद्विशेषेणाह-यत् किश्चित् कदालम्बनमाश्रित्य मिथ्याभावोऽत्रास्तीति 'अभ्रादित्वादकारे' मिथ्या तया मिथ्याभावयुक्त्या इत्यर्थः । तथा मनसैव दुष्टं यथा भवति कृतया द्वेषरूपया, एवं वागदुःकृतया दुर्वाग्ररूपया, कायदुःकृतयाऽऽसन्नगत्यादिरूपया । क्रोधोऽत्रास्तीति क्रोधया इत्यादि, अयं भावः क्रोधान्मानाच्च विनयभ्रंशं कुरुते । मायातः शक्तोऽप्यक्षमो जाग्रदपि सुप्तः स्याल्लोभात्तु गुरुं वञ्चयित्वा रम्यवस्वाद्यादते । एवं देवसिकीमुक्त्वेहभवान्यभवगतातीतानागतकालसङ्ग्रहार्थमाह-सर्वकालिक्या कालत्रयकृतया। तत्रैष्यत्काले कथमाशातना ? उच्यते, अहं कल्ये अस्य गुरोरनिष्टं कर्तास्मीति चिन्त्या । एवमेध्यद्भवविषयमपि निदानभावात् । सर्वे एव मिथ्योपचारा दूषितभावेन कृता भक्तिविशेषा यस्यां तया, सर्वे धर्मा अष्टौ प्रवचनमातरः करणीयाश्च योगास्तेषामतिक्रमणा विराधाना तया, एवंभृतया आशातनया इति निगमयति । यो मयातिचारोऽपराधः कृतस्तस्यातिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिक प्रतिक्रामाम्य पुनःकरणेन निवर्ते तथा दुःकर्मकारिणं स्वं निन्दामि भवोद्विग्नमनसा, तथा गर्दै युष्मत्साक्षिकं यथार्हप्रायश्चित्तादानेन, तथा व्युत्सृजाम्याशातनाकारिणमात्मानं तदनुमतित्यागेन, एवं क्षामयित्वा पुनस्तत्रस्थ एवार्डावनतकाय एवं भणति 'इच्छामि खमासमणो' इत्यादि सर्व द्रष्टव्यं, नवरमयं विशेषः 'खामेमि खमासमणो' इत्यादिसर्व सूत्रमावश्यिक्याविरहितं तत्पादपतित एव भणति | बृहद्वत्तौ चूर्णी अवग्रहप्रवेशे 'निसीही नोक्ता । एवं 'सीसेण पदे पदे संवेगमावजंतेणं नीयगोयखवणट्ठयाए अगोयस्स ठाणस्स फलं हियदए काऊण वंदणगं दायत्वं जाव सिरेणं फुसे पाए तिवक्ष्यमाणवचनात् 'संफासं खामेमि खमासमणो देवसियं वइक्कम' चेति वदन् शिरसा गुरुपादौ स्पृशति । अत्र
Jain Educatio
al
n सा
For Private & Personal Use Only
www.jainelibrary.org