SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ली आवश्यक नियुक्तिदीपिका S सूत्र ॥२६॥ पनास्थानं २, गुरुर्वक्ति अनुजानामि, शिष्यो वसतिवदत्राप्यवग्रहान्तः प्रविशन् निसीहिं अन्यव्यापारनिषेधरूपां वक्ति । ततो वन्दनाविधिनोपविश्य धर्मध्वजं भुवि मुक्त्वा तत्र गुरुपादौ निवेश्य तं भालं च कराभ्यां स्पृशन् वक्त्यधस्तनं कायं अंहिरूपं कायेन ध्ययने हस्तद्वयरूपेण संस्पृशामि तथानुजानीतेत्यत्रापि सम्बध्यते 'रायणियस्स संफासो वि अणणुण्णवित्ता न वट्टति काउं'।क्षमणीयः सह्योऽधुना भवद्भिर्मदङ्गस्पर्शे देहग्लानिरूपः क्लमः । किं च अल्पक्लान्तानां अल्पक्लमत्रतां अल्पशब्दोऽभावे बहुशुभेन प्रभू.IN व्याख्या ॥ तसुखेन भवतां दिवसो व्यतिक्रान्तः? 'दिवसो पसत्थो अहोरत्तादी य तेण दिवसो गहिओ राइपक्खो इच्चाइ भाणियवं'। तृतीयमव्याबाधापृच्छास्थानं ३ । गुरुर्वक्ति 'तहत्ति' तथेति यथा त्वं षे । पुनः शिष्यो वक्ति यात्रा तपोनियमादिरूपोत्सपति भवतां ? तुर्य यात्रापृच्छास्थानं ४। गुरुर्वक्ति 'तुम्भपि वट्टए' युष्माकमपि वर्तते? पुनराह शिष्यः यापनीयं च भवतां? कोऽर्थः इन्द्रियाण्यनुपहतानि वशे च सन्ति । मनोऽपि क्रोधादयो न बाधन्ते । पञ्चमं यापनीयस्थानं ५। गुरुः 'एवं' तथेत्यर्थः । शिष्यः पादयोः पतितो वक्ति-क्षमयामि क्षमाश्रमण ! दैवसिकं दिवसकृतं व्यतिक्रमं अपराधं षष्ठमपराधक्षामणास्थानं ६ । गुरुवाक् ' अहमवि खामेमि तुमे' अहमपि क्षामयामि युष्मान् विधिशिक्षणादिकं व्यतिक्रमं । शिष्योऽभ्युत्थाय 'आवस्सियाए ' इत्यादिनालोचनाण 'तस्स खमासमणो पडिक्कमामि' इत्यादिना प्रतिक्रमणार्हेण च प्रायश्चित्तेन स्वं शोधयितुमवग्रहानिःसृत्य वक्ति 'आवस्सियाए ' इत्यादि । अवश्यकार्येषु चरणकरणेषु भवा क्रिया आवश्यकी तया हेतुभूतया यदसाधुकृतं तस्मात्प्रतिक्रामामि निवर्ते । इत्थं सामान्येनाख्याय विशेषेणाह-क्षमाश्रमणानां सम्बन्धिन्या देवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना निरुक्त्या यलोपः तया त्रयस्त्रिंशदन्यतरया, ताश्चाग्रेतनाध्ययने वक्ष्यन्ते । तेत्तीसाए G॥२६॥ Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy