________________
Jain Education Inte
जत्ता भे ? जवाणिजं च भे ? खामेमि खमासमणो ! देवसियं वइक्कमं, आवस्सियाए पडिक मामि खमासमणाणं देवसिआए आसायणाए तित्तीसण्णयराए जं किंचि मिच्छाए मणदुक्कडाए वयदुकडा कायदुक्कडाए कोहाए माणाए मायाए लोभाए सबका लियाए सबमिच्छोवयाराए सबधम्माइकमाए आसाणाए जो मे अइयारो कओ तस्स खमासमणो ! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ ( सूत्रम् )
श्राम्यति तपस्यतीति श्रमणः समोपलक्षितदशविधधर्म्मप्रधान श्रमणस्तस्य आह्वानं हे क्षमाश्रमण ! वंदितुं इच्छामि याधातोर्ण्यन्तस्य पागमे कर्त्तर्यनीये यापयति इष्टं साध्यं सिद्धिं नयतीति यापनीया कार्यक्षमाऽरोगा चेत्यर्थः तया, पापनिषेधेन निर्वृत्ता नैषेधिकी पापनिवृत्तात्मनो देहस्तया, अयं भावः - नीरोगः शक्तो मद्देहो निषिद्धपापश्चाहं तन्नन्तुमीहे इतीच्छानिवेदनमाद्यं स्थानं १, इच्छामि वन्दितुमिति मनःशुद्धिरर्द्धावनतत्वे च कायशुद्धिरेतद्वर्णोच्चारे वाक्शुद्धिश्व ज्ञापितेति । एतावत् स्फुटशुद्धाक्षरमुक्त्वा स्थेयं । चेद्गुरुर्व्याक्षिप्तस्तदा त्रिविधेनेति वक्ति मनोवाक्कायैः संक्षेपेण नमेत्यर्थः । अव्याक्षिप्तस्तु छंदेणेति वक्ति । कोऽर्थः छन्देन निजेच्छया वन्दस्वेति कार्यमिति शिष्यस्तत्रस्थ एव वक्त्यनुजानीत अनुमन्यध्वं कृतिकर्म्मकरणं ततोऽनुजानीत मे मितावग्रहं । तत्र यावान् ४ दिक्षु गुरोरवग्रहः गुरुसत्कप्रदेशमर्यादा पुरोवक्ष्यमाणरूपोऽस्ति तन्मध्ये मितं स्तोकं वंदनोचितप्रदेशरूपं क्षेत्रं मितं कालं वन्दनविषयकालं यावदवग्रहं वन्दनोचितप्रदेशरूपमित्यर्थः, द्वितीयमनुज्ञा
For Private & Personal Use Only
www.jainelibrary.org