________________
आवश्यकनियुक्तिदीपिका ॥
॥२३॥
परावर्चते ५। 'अप्प ''कुणइ'
वन्दने अप्पपरपत्तिएणं, मणप्पओसो य वेइयापणगं । तं पुण जाणूवरि, जाणुहिट्ठाओ जाणु बाहिं वा ॥ ६॥
त्याज्यकुणइ करे जाणुं वा एगयरं ठवइ करजुयलमज्झे । उच्छंगे करइ करे, भयं तु निज्जूहणाईयं ॥ ७ ॥
दोषाः ॥ आत्मपरप्रत्ययेन मनःप्रद्वेषोऽनेकोत्थानः स्यात् । तत्रात्मप्रत्ययः खस्य गुरुताडनया, परप्रत्ययः स्वमित्रादेः गुरुताडनया एवमाद्यन्यकारणैरपि ९ । पञ्च वेदिका उत्सङ्गे जान्वोरु १ अधः २ पार्श्वयोः ३।४ एकतरं जानुं करद्वयान्तः करद्वयमध्ये वा ५ कृत्वा वन्दते १०॥ भयं नियुहणं गच्छानिःकासनं तदादिकं मनसि कृत्वा वन्दते ११ ॥६-७॥'भयइ'
भयइ व भयिस्सइत्ति य, इअ वंदइ होरयं निवसंतो। एमेव य मित्तीए, गारवसिरकाविणीओऽहं ॥८॥ एष मां भजति इत्यनुवर्तते, अग्रे भजिष्यतीति वा इति निहोरकं निवेशयन् वन्दते । यथा स्मर्त्तव्यं त्वया वयमपि वन्दमानाः स्म इति १२ । 'एमे' एवमेव निहोरकवन्मैव्यापि हेतुभूतया वन्दते १३ । 'गारव०' शिक्षायां वन्दनादि| सामाचार्या विनीतो दक्षोऽहं इति गर्वाद्वन्दते १४ ॥ ८॥'नाणा'
नाणाइतिगं मोत्तुं, कारणमिहलोयसाहयं होइ । पूयागारवहेऊं, नाणग्गहणेवि एमेव ॥९॥ ज्ञानादित्रयं मुक्त्वा इहलोकस्य साधकं वस्त्रादिवाञ्छारूपं कारणं ब्रुवते तदर्थ यो वन्दते । अहं विनयेन जनेषु पूज्यो भवामीति स्वस्य पूजागौरवार्थ वन्दते, ज्ञानग्रहणेऽप्येवमेव कारणदोषः । तथा 'आयर हंदी' तीहलोककारणस्यैव दर्शनेऽतिशयादरेणामुं वन्दे, तेन पश्चादेतद्वस्तु प्रणयिध्ये याचिष्ये वन्दनकमूल्यरूपभावात् प्रणयस्य याञायां भङ्गं नाला॥२३॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org