SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥ कत्यवनतं कतिशिरं चेतिद्वारद्वयम् ।। गतं कतिकृत्वो द्वारं, अथ कत्यवनतं, कतिशिर इति द्वारद्वयं। तथा अवनामशिरोद्वारद्वयं आवश्यकेभ्यः पृथक निर्धार्य यदुक्तं तद्विशिष्य विनयमूलधर्मज्ञायै, अन्यथाऽवनामो शिरसा गुरुचरणस्पर्शनं च गुरोर्नमनं चानुपयुक्तस्य न स्युः । 'दुओ' दुओणयं अहाजायं किइकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिकमणं ॥१२०९ ॥ द्विकृत्वोऽवनतं व्यवनतं, यथा वन्दनकद्वयेऽपि 'इच्छामि खमासमणो वंदिउं जावणिज्जाए निस्सीहियाए 'उक्त्वा छन्दोनुज्ञापनायामवनमनं २ । यथाजातं श्रामण्ये योनिनिःक्रमणे च । श्रामण्ये साधुर्धर्मध्वजमुखपोतिचोलपट्टयुग श्रमणो जातः । साध्वी तु सर्वाङ्गोपकरणधर्मध्वजमुखपोतियुक्ता जाता । उपलक्षणात् श्राद्धः श्राद्धिका च सिद्धान्तयुक्त्या पश्चविधाभिगमविधिना देशविरतिं प्रतिपन्ना । ततः साध्वादयो यथाजातमुद्रया वन्दनं ददतीति दातुरभिन्नत्वाद्वन्दनकमपि यथाजातं । योनिनिःक्रमणे तु रचितकरसम्पुटो योन्या निर्गतस्तथाभूतश्च वन्दते । चुर्णौ तु 'अंजलिं सीसे काऊण णीति' तत्रायमर्थों घटते 'खमणिजो मे किलामो' इत्यादिभणने शिरस्यञ्जलिकरणं यथाजातमुद्रयोक्तं ३ । कृतिकर्मवन्दनं द्वादशावतं ' अहो १ कायं २ काय ३ जत्ता मे ४ जवणि ५ अंच में' ६ इत्येकस्मिन् ६, द्वितीयेऽपि ६,एवं १२ आवर्ताः गुरुचरणन्यस्तहस्तशिरःस्थापनरूपाः १५। यथाजातद्वादशावर्तरूपं द्वारद्वयं कत्यवनतद्वारेण सूचितं ज्ञेयं । द्वारं ५। कति शिरांसीत्याह 'चउसिरं' द्विकृत्वः क्षामणाकाले शिष्याचार्यशिरोद्वयनमनमिति चत्वारि शिरांसि यत्र तच्चतुःशिरः १९ । द्वार ६ । त्रिगुप्तं मनसा सावधानस्य वाचाऽस्खलिताक्षराण्युच्चरतः कायेनावश्यकानि कुर्चतः । २२ । द्विकृत्वोऽवग्रहान्तरनुज्ञाप्य प्रवेशनं २४ । एकनिःक्रमणमावग्रिक्या निर्गच्छतः द्वितीयवेलायां यवग्रहात्र निर्गच्छति । पादपतित एव सूत्रं समापयतीति । २५ । विगल ॥२१॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy