________________
आवश्यक नियुक्तिदीपिका ॥
वन्दनाध्ययने वन्द्याः ॥
॥ १९॥
ध्यापनादिसर्वचिन्ताया न्यस्तत्वात् , अर्थ भाषते आचार्यों गणधरः, न तू सूत्रं १। यतः 'एगग्गया य झाणे, वुड्डी तित्थयरअणुकिती गरुआ। आणाहिजमिइ गुरू कयरिणमुस्का न वाएइ' ॥२॥ सूत्रस्यादानेनार्थमेव ददतः सूरेानेऽर्थचिन्तारूपे एकाग्रता स्यात् न तु सूत्रवाचने बहुव्यग्रत्वात् । 'बुड्डी'त्ति एकाग्रध्यानेऽर्थबुद्धिवृद्धिस्तीर्थकरानुकृतिस्तीर्थकरा द्यर्थमेवाहुन सूत्रं । सूत्रदानस्यान्यैरपि साध्यत्वादर्थमेव वदतो गुरुता गरिमा । आज्ञायां च स्थैर्य जिनाज्ञा पालिता स्यात् । यावद्गुरुः सर्व सूत्रं शिष्यान्न भाणयेत्तावद् ऋणी उच्यते । अतः सामान्यावस्थायां साधवः सूत्रं पाठिता इति कृतस्त्रऋणमोक्षः। एतैर्हेतुभिः सूत्रं न वाचयति २'सम्मत्तणाणसंजमजुत्तो, सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो, सुत्तं वाएउवज्झाओ' ॥३॥ सम्यक्त्वज्ञानसंयमयुक्तः, सूत्रं अर्थ तदुभयस्य सूत्रार्थयोर्दानादिविधिं च जानातीति सूत्रार्थतदुभयविधिज्ञः, आचार्यस्थानस्य आचार्यपदस्य योग्यः सूत्रं वाचयत्युपाध्यायः३। (किं निमित्तं ?) 'सुत्तत्थेसु थिरतं, रिणमुरको आयतीयऽपडिबंधो । पाडिच्छामोहजओ, सुत्तं वाए उवज्झाओ' ॥ ४ ।। सूत्रवाचनेऽयं हेतुःसूत्रार्थेषु स्थिरत्वं ऋणमोक्षः प्राग्वत् । आयत्यां एष्यत्काले अप्रतिबन्धः सूत्रार्थाविच्छेदः, प्रतीच्छका येऽन्यत एत्य सूत्रोपसम्पदं गृह्णन्ति तेषामनुग्रहः । मोहस्य वेदमोहनीयस्य जयो वाचनारसिकत्वात् । तस्मात् सूत्रं वाचयेत् ४ । 'तवसंजमजोगेसु, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो पवत्ती उ' ॥५॥ तपःसंयमयोर्योगेषु व्यापारेषु यो योग्यस्तत्र तं प्रवर्तयेत् , असहं दुर्वलं तपसो निवर्तयेत् । गणतप्तिवान् प्रवर्तकः ५।'थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसुं। जो जत्थ सीयइ, जई संतबलो तं थिरं कुणइ ॥६॥ प्रवर्तकव्यापारितेष्वर्थेषु साधूनां स्थिरकरणत्वात् स्थविरः । कथं यो यत्र पुण्यकृत्ये यतिः सदलो
G॥ १९॥
Jain Education in
www.jainelibrary.org
For Private & Personal Use Only
al