SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ तं शीतलरूक्षान्नस्यानुचितं राजर्षित्वात् रोगित्वाच्च बजेषु कुलेषु विकृतिगतेन विकृतिमिश्रेण भक्तेन यापयन्तं निर्वाहयन्तं दृष्टाः क्षमा अपि न गणयन्ति भणन्ति च किं उदायनो मुनिने आसीत् न अभूत् ॥ ११९३ ॥ इह कथाः ___कोल्लागपुरे सङ्गमाचार्यो दुर्भिक्षे साधून विसृज्य वृद्धत्वात् पुरं नवधा विभज्याटति, दत्तः शिष्यस्तच्छुद्ध्यर्थ समेतो नित्यवासित्वात्पृथगस्थात् । गुरुस्तं भिक्षायां सहाहूतं प्रान्ताहारग्रहणात् क्लिश्यन्तं दृष्ट्वा क्वापि श्रेष्ठिगृहे रेवतिकात्तं बालं षण्मासेभ्यः प्रभृति रुदन्तं चर्पटिकया मा रोदीरिति दोषाद्विमोच्य तत पितृभ्यां भव्यानं शिष्याय दापयित्वा तं विसज्य स्वयं प्रान्तं बुभुजे । शिष्यश्च सायं सह प्रतिक्रामन् धात्रीपिण्डमालोचयेति गुरूक्तो नित्यवासादिस्वदोषान्न पश्यतेत्यवक । भक्त्या | सूर्या तच्छिक्षायै अतिध्वान्ते कृते बिभ्यद्रुणहीत्युक्तो वान्ते कथमायामीति वदन् गुरोर्दीप्ताङ्गल्योद्योते कृतेऽहो तप इत्यादरेणालोच्य गुरोश्च क्षेत्रनवभागादिक्रियां ज्ञात्वा प्रीतः। अनिकापुत्रकथा योगसङ्कहे वक्ष्यते । वीतभयेशोदायनो जामेये राज्यं दवा दीक्षितो भिक्षाहाराद्रोगे वैद्योक्त्या बजेषु दधि गृह्णन् वीतभये गतो मन्त्रिपरावर्तितजामेयकेशिनृपदापितविषमिश्रं दधि ज्ञात्वा सदा दध्यत्यजत् । रोगवृद्धौ पुनहाति सूर्या विषं ज्ञातं हृतं च । एवं बहुशो जाते सूर्यां प्रमत्तायां सविषं दधि भुक्त्वा मृतः सिद्धः। सूर्या पुरं धूल्याऽऽच्छादितं । शय्यातरः कुलालः सेनापल्या मुक्तः। तत्र कुम्भकारप्रक्षेपाख्यं पत्तनं जातं 'सुत्त' M सुत्तत्थबालवुड्ढे य, असहुदवाइआवईओया। निस्साणपयं काउं, संथरमाणावि सीयंति ॥ ११९४ ॥ सूत्रार्थबालवृद्धान् असहद्रव्याद्यापदश्च निश्राणां पदं कृत्वा संस्तरतो निर्वहन्तोऽपि सीदन्ति क्रियायां प्रमाद्यन्ति । तत्र Jain Education inte For Private & Personal use only |www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy