________________
| अलसाः सन्तो विशुद्धचरणाः कथं भवन्ति ? ॥११७८|| चो० ये आलम्बनेन बाह्यकरणालसास्तेषु का वार्ता ? आ० 'आलं.' आलंबणेण केणइ, जे मन्ने संयम पमायंति । न हु तं होइ पमाणं, भूयत्थगवेसणं कुजा ॥११७९॥
अहं एवं मन्ये ये केनाप्यालम्बनेन संयम प्रमादयन्ति त्यजन्ति न तदालम्बनं प्रमाणं, किन्तु भ्रतार्थगवेषणं तत्वार्थान्वेषणं कुर्यात् 'किमिदं आलम्बनं पुष्टमपुष्टं चेति । अपुष्टालम्बनेऽशुद्धचरणाः पुष्टे तु शुद्धाः॥११७९ ॥ चो० पुष्टालम्बनात् को विशेषः ? आचार्यः 'सालं' सालंबणो पडतो अप्पणं दुग्गमेऽवि धारेइ । इय सालंबणसेवा धारइ जइं असढभावं ॥ ११८० ॥
सालम्बनः पुष्टद्रव्यालम्बनवान् नर आत्मानं दुर्गमे गर्तादौ पतन्तं धारयति । एवं पुष्टभावालम्बनसहिता सेवाऽशठभावं यति भवं पतन्तं धारयति । पुष्टालम्बनानि त्वमूनि 'काहं अच्छित्तिं अदुवा अहीहं तवोवहाणेसु य उजमिस्सं । गणं व णीईई व हु सारविसं, सालंबसेवी समुवेइ मुरकं' ॥१॥'अच्छित्ति' धर्मस्याच्छेदं करिष्ये । अथवाऽध्येष्ये । तपोविधानेषु तपोभेदेषु उद्यमिष्यामि । गणं गच्छं नीत्या सारयिष्यामि । विकृत्यादेरेवं सालम्बसेवी मोक्षं समुपैति ॥११८० ॥'आलं'
आलंबणहीणो पुण, निवडइ खलिओ अहे दुरुत्तारे। इय निकारणसेवी, पडइ भवोहे अगाहमि ।११८१। । आलम्बनहीनः पुनः स्खलितः सन् 'अहे' इति गर्ने दुरुतरे निपतति । एवं निःकारणे सेवी पुष्टालम्बनं विना सेवमानः | भवस्य ओघे प्रवाहे अगाधे पतति ॥ १९८१ ।। गतं दर्शनद्वारं । यथा प्रमादिनो ज्ञानदर्शनकान्तमालम्बन्ते तथा नित्य
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org