________________
Jain Education Inte
साय सयं गोसऽद्धं, तिन्नेव सया हुंति पक्खमि । पंच य चाउम्मासे, अट्ठसहस्तं च वारिसए ॥ १५२५ ॥ सन्ध्यायां १०० उच्छ्वासाः त्रिभिरुत्सर्गैः स्युः । 'गोसे' प्रातरर्द्ध ५० उच्छ्वासाः, त्रीणि शतान्युच्छ्वासाः पक्षे, पञ्चशतानि चतुर्मासके, अष्टोत्तरसहस्रं वर्षे स्युः ॥ १५२५ ॥ ' चत्ता '
चत्तारि दो दुवालस, वीसं चत्ता य हुंति उज्जोआ । देसिअ राइय पक्खिअ, चाउम्मासे अ वरिसे य ॥
दैव सिके सायं ४, प्रातः ३ 'लोगस्सुजोय गरे' इत्यादि, पाक्षिके १२, चातुर्मासिके २०, वार्षिके ४० लोकोद्योतकरेभ्योऽनु नमस्कारो वाच्यः । नमस्कारे च द्वावेव श्लोकौ विवक्षितौ एकः परमेष्ठिपदैरेकचूलिकायाः । नमस्कारे सप्तभिः पदैः सप्तोच्छ्वासाः, अष्टमो अष्टमनवाभ्यां पदाभ्यां ।। १५२६ ।। ' पण ' ' पणवीसमद्धतेरस, सिलोग पन्नत्तरिं च बोद्धवा । सयमेगं पणवीसं, बे बावन्ना य वारिसिए । १५२७ ॥ ॥ गणागणविहारे, सुत्वा सुमिणदंसणे राओ । नावानइसतारे, इरियावहियापडिक्कमणं ॥ १५२८ ॥
' गम '
क्रमेण चतुःपादरूपश्लोकसङ्ख्या, तत्र पञ्चविंशतिश्लोका दैवसिके, सार्द्धद्वादश रात्रिके श्लोकाः, पञ्चसप्ततिः पाक्षिके, शतं एकं पञ्चविंशत्यधिकं चातुर्मासिके । वार्षिके 'बे बावने 'ति २५२ श्लोकाः, यतः परमेष्ठिपदैः श्लोकः १ चूलिकाया द्वितीयः २ । अनियतोत्सर्गद्वाराणि गमनागमने १ विहारे २ सूत्रेऽधीयमाने वा ३ रात्रौ स्वप्नदर्शने ४ नावा नद्याः संतरणे ५ ऐर्याप - थिकीप्रतिक्रमणं स्यात् ।। १५२७-२८ || भाष्यं - ' भत्ते '
३३
For Private & Personal Use Only
www.jainelibrary.org