________________
आलएणं विहारेणं, ठाणाचंकमणेण य । न सको सुविहिओ, नाउं भासावेणइएण य ॥ ११५७॥d ___ आलयादिना न शक्य उदायिमारकादिवत् । यद्वाऽसंयता भिक्षादिहेतवे संयतवत्संयता अपि कारणतोऽसंयतवच्चेष्टन्ते । इति ॥ ११५७ ॥ किश्च भर' भरहो पसन्नचंदो, सब्भितरबाहिरं उदाहरणं। दोसुप्पत्तिगुणकर, न तेसि बझं भवे करणं॥११५८॥ ___ साभ्यन्तरं बाह्यं करणमाश्रित्य भरतः प्रसन्नचन्द्रश्च उदाहरणं । तत्राभ्यन्तरं मरतो यतस्तस्य बाह्यकरणरहितस्यापि भावनया केवलमुत्पन्न, बाह्यं तु प्रसन्नचन्द्रः तस्य बाह्यकरणवतोऽप्यन्तःकरणाभावे सप्तमभृकर्मबन्धोऽभूत् । ततस्तयोर्बाचं करणं भूषादि लोचादि च दोषोत्पत्तिकारकं गुणकारकं च नाभूत् । किन्त्वान्तरं करणं भाव एव प्रमाणं जातं ॥ ११५८ ॥ आचा०' पत्ते' पत्तेयबुद्धकरणे, चरणं नासंति जिणवरिंदाणं । आहच्चभावकहणे, पंचहि ठाणोह पासत्था ॥११५९॥
प्रत्येकबुद्धाः प्राग्भवाभ्यस्तोभयकरणा भरतादयस्तेषां आन्तरैककरणे सति मृढा मुर्खा जिनेन्द्राणामुक्तं चरणं तस्यान्येषां च नाशयन्ति । किम्भृताः सन्तः?'आहच्चे'ति कदाचिदर्थेऽयं भावः-भरतादिसम्बन्धिकादाचित्कभावकथनेन । सप्तमी तृतीयार्थे । पञ्चभिः प्राणहिंसादिस्थानः पार्श्वस्थाः सिद्धिमार्गस्य पार्श्वे स्थिताः सन्तः ॥ ११५९ ॥ एतदेवाह ' उम्म' उम्मग्गदेसणाए, चरणं नासिंति जिणवरिंदाणं। वावण्णयदंसणा खलु, न हुलब्भा तारिसा दटुं।।११६०/
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org