________________
कायोत्स
ध्ययने पाक्षिकसूत्रम् ॥
बावश्यकता | सङ्ख्याध्ययनानि सत्याध्ययनादीनि ५। निशीथेऽर्द्धरात्र इव रहापाठाहत्वानिशीथं ६, सविशेषो रहोऽहों महानिनियुक्ति- शीथं ७, जम्बूद्वीपादीनां विचारवाचिग्रन्था जम्बूद्वीपप्रज्ञप्तिः सूर्यप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः द्वीपसागरप्रज्ञप्तिः, केऽपि सूरप्रज्ञप्तिदीपिका ॥ मुत्कालिकेऽपि पठन्ति ८-११। क्षुल्लिका लध्वी विमानप्रविभक्तिमहती विमानप्रविभक्तिः१२-१३, अङ्गानां चूलिका उक्तानुक्ता
र्थसङ्ग्रहग्रंथः१४, एवं वर्गा अध्ययनानां समूहास्तच्चूलिका १५ विवाहो भगवती विशिष्टा वाहा विचारप्रवाहा अस्मिन्निति ॥१८७॥
वाहा आस्मान्नति निरुक्तेस्तच्चूलिका १६ । अरुणोपपातो १७ वरुणोपपातो १८ गरुडोपपातो १९ धरणोपपातो वैश्रमणोपपातो २० वेलंधरोपपातो २१ देवेन्द्रोपपातः २२, एतान्यरुणादिस्वरूपवाचीन्यध्ययनानि । एषु गुण्यमानेषु अरुणाद्या देवाश्चलितासना महा साधुपार्श्वयाताः संविग्नाः श्रुत्वा हृष्टाः श्रमणं वदन्ति “ सुस्वाध्यायितं वरं वृणु' साधुर्वक्ति न मे वरेणार्थः । ततो गाढतरसंविग्नाः प्रदक्षिणय्य वन्दित्वा यान्ति । उत्थानश्रुतं यस्मिन् १-२-३ वार गुण्यमाने विपक्षजनप्रामादिविलाप कुर्वन्नुदसति २३ । एवं समुट्ठाणसुए' तेन सुग्रामादि समुत्तिष्ठते वप्तति, यद्वा पूर्वस्थितः साधुरोपादुत्तिष्ठते, २४ तथा नागपरिक्षा नागकुमारवाच्यध्ययनं २५, तस्मिन् गुण्यमाने नागा भवनस्था एव साधुं नमन्ति, पुण्यकार्ये च वरदाः स्युः २६ । निरयावलिका नरकयायिजीवस्वरूपवाची ग्रन्थः २७ । कल्पिकाः सौधर्मादिकल्पवाचका ग्रन्थश्रेणयः २८ । कल्पावतंसिकाः कल्पश्रेष्ठविमानविचारतद्यायिजीवदेवदेवीप्राग्भवविचारग्रन्थावल्यः २९ पुष्पिताः गृहवासत्यागात्संयमेन ये पुष्पिताः, संयम मुक्त्वा पुनःस्वीकृत्य वा पुष्पितास्तेषां चरित्रबद्धा ग्रन्थाः २९ । पुष्पचूलिका उक्तार्थविशेषवाचिग्रन्थाः ३० । वृष्णिदशाध्ययनप्रतिवद्धा वृष्णेरन्धकवृष्णेर्वक्तव्यता तद्वाच्यध्ययनं ३१ । आशीविषभावना दृष्टिविषमावना चरणभावना
॥१८॥
For Private & Personal Use Only
www.
jainelibrary.org
Jain Education in