SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ स्यात्तच नियतं, यह स्थविरकृतं तदड़बाह्यं तच्चानियतं । उत्कालिकं कालग्रहणं विना कालवेलाऽनध्यायं विना पाठाई भगवत पूज्यं । तद्यथा-विकाले स्तोकशेषेति पूर्वेभ्य उद्धृतं दशाध्ययनयुक्तमिति दशवकालिकं १, कल्प्याकल्प्यवाचकं कल्प्याकल्प्यं २, स्थविरकल्पादिवाचकं क्षुल्लं लघुकल्पश्रुतं, महाकल्पश्रुतं च ३-४, देवनरादिजन्मसिद्धिगत्युपपातवाचकं औपपातिकं ५, राज्ञः प्रदेशिनः प्रश्नैर्भवं राजप्रश्नीयं ६, जीवस्वरूपवाचको जीवाभिगमः ७, औपपातिकादीन्युपाङ्गानि त्रीणि आचाराङ्गादीनां त्रयाणां । प्रज्ञापना महाप्रज्ञापना च जीवाजीवप्ररूपको ग्रन्थौ समवायांगस्योपाङ्गे ८-९, पञ्चज्ञानवाचको नन्दिः १०, अनुयोगस्य द्वाराण्युपक्रमादीनि तद्वाचकग्रन्थोऽनुयोगद्वाराणि ११, देवेन्द्रादीनां चमरादीनां स्तवनं भवनस्थित्यादिस्वरूपभाषणं यत्र स देवेन्द्रस्तवः १२, आयुःशतवर्षभोग्यतंदुलविचारयुतमध्ययनं तंदुलवैचारिकं १३, चन्द्रको यन्त्रपुत्रिकाऽक्षिगोलस्तद्वेध्योपमाचित्तस्थैर्याराधनायै ग्रन्थश्चन्द्रकवेध्यं १४ । प्रमादाप्रमादफलभाषकमध्ययनं प्रमादाप्रमादं १५ । प्रतिमण्डलं पौरुषीस्थाया(छाया)मानग्रन्थः पौरुषीमण्डलं १६ । चन्द्रसूर्यमण्डलप्रवेशवाचको मण्डलप्रवेशः १७। गणेराचार्यस्य दीक्षादौ विद्या ज्ञान गणिविद्या १८ । विद्या ज्ञानं चरणं चारित्रं तयोः फलविनिश्चयवाची ग्रन्थो विद्याचरणविनिश्चयः १९ । ध्यानविशोधि(विभक्तिर्मरणविभक्ति)ानमरणमेदवाचिग्रन्थौ २०-२१ । आत्म(वि)शोधिहेतुप्रायश्चित्तग्रन्थः आत्म(वि)शोधिः २२, संलेखनाश्रुतं वीतरागश्रुतं संलेखनाविधिवीतरागस्वरूपग्रन्थौ २३-२४ स्थविरकल्पादिव्यवस्थावाची विहारकल्पः २५ । चरणसप्ततिगन्थश्चरणविधिः २६ । आतुरस्य चेष्टाऽयोग्यस्य दिने दिने आहारहासेनांते सर्वाहाराहानेन भक्तादिवैराग्याद्भत्याद्य(क्तादि)कृत्स्नस्य भवचरमकरणवर्णनाध्ययनं आतुरप्रत्याख्यानं २७, यत्र महत्प्रत्याख्यानं वर्ण्यते यथा स्थविर Jain Education inte For Private & Personal use only Doww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy