SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१८१ ॥ Jain Education Intern २, क्रियावरण जीव इति क्रियामात्रेणैवावृतो जीवो न तु कर्मभिः ३, ' मुदग्ग' इति देहबाह्यान्तरपुद्गल कृताङ्गो जीवोऽस्ति भवनादिसुराणां बाह्यान्तरपुद्गलादानतो रूपकरणदर्शनात् ४, 'अमुदग्ग' चि न बाह्यान्तरपुद्गलाङ्गो जीवोऽस्ति सुराणामेवमपि सरूपाणां दर्शनात् ५, सुरान् दृष्ट्वा रूप्येव जीव इत्यास्था ६, वायुचालितान् पुद्गलान् दृष्ट्वा सर्व जीव इति ७, एवं विभङ्गं परिवर्जयन् । पिण्डैषणा सप्त असंसृष्टा १, संसृष्टा २, उद्धृता ३, ऽल्पलेपा ४, ज्वगृहीता ५, प्रगृहीता ६, उज्झितधर्म्मा च ७ । एताः प्रतिक्रमणाध्ययने व्याख्याताः एवं पानैषणा अपि सप्त व्याख्याताः । अवग्रहप्रतिमा अवग्रहस्थितिस्तस्याः प्रतिमा नियमविशेषा यथा उद्दिष्टे यथेद्यगेवोपाश्रयः कार्यः इति मनसा ध्याते वसनं १, अन्यसाध्यर्थं याचित्वा ततस्तदवग्रहे वसनं २, अन्यार्थं याचिते तैरगृहीते वसनं, एषा स्वहालंदिकानां प्रतिमा यतस्ते भणन्तो गुर्वर्थं याचन्ते, उत्कृष्टं पञ्चदिनानि तिष्ठन्ति ३ । अवग्रहाऽयाचनाऽन्यावग्रहे तु वसनं, एषा गच्छ एवोद्यतविहारिणां परिकर्म्म कुर्व्वतां स्यात् ४ । आत्मार्थमेवावग्रहयाचनं नान्यार्थं एषा जिनकल्प एव स्यात् ५। कटादिसंस्तारयुक्तायामेव वसनं, अन्यथा निविष्टेनोत्कटिकादिना वाऽवस्थानं ६ । यथास्वतशिलोट्टलकादियुक्त एव नियमाद् वसनं ७, एताः सप्त प्रतिमाः । सप्त सप्तैकाख्यानि आचाराङ्गाध्ययनानि यथास्थानं १, निषीधिका २, उच्चारप्रश्रवण ३, शब्द ४, रूप ५, परक्रिया ६, अन्योन्यक्रिया ७ नामानि क्रमात्कायोत्सर्गादिस्थान १, निर्दोषनैषेधिकी २, विण्मूत्रत्यागस्थान ३, नानाशब्दनानारूपादित्याग ४ - ५, परकृतपादचपनादिक्रिया ६, मिथः क्रमचम्पनादिवैयावृत्यक्रियावाचीनि । महाध्ययनानि सप्त यथा सूत्रकृद्वितीयश्रुतस्कन्धे पुण्डरीक १ क्रियास्थान २ आहारपरिज्ञा ३ प्रत्याख्यान ४ अनगार ५ आर्द्रकुमार ६ नालिंदा ७ नामानि । एषां For Private & Personal Use Only कायोत्स र्गाध्ययने पाक्षिक सूत्रम् ॥ ॥१८१ ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy