SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ११ ॥ Jain Education Inter रूप्यं प्रत्येकबुद्धाः । टंकं ये लिङ्गधारिणः श्रमणाः, द्रव्यभावस्य समायोगः श्रमणः छेकः ।। ११४७ ॥ गतं वैडूर्यद्वारं । ज्ञानमेव वरं यतः एवं सिद्धांते 'जं अण्णाणी कम्मं, खवेइ बहुयाहिं वासकोडीहिं । तं णाणी तिहि गुत्तो, खवेइ उसासमित्तेणं' ॥ १ ॥ यत्कर्म्माज्ञानी मिध्यादृष्टिस्तपस्तप्यमानो बहुकाभिर्वर्षकोटीभिः क्षपयति, ज्ञानी सम्यग्दृष्टिः त्रिभिः मनोवाक्कायैर्गुप्तः सन् तत्कम्र्म्मोच्छ्वासमात्रेण क्षपयति १ । 'सूई जहा ससुत्ता, ण णासई कयवरंमि पडियावि । जीवो तहा ससुत्तो, ण णस्स गओsa संसारे ' || २ || यथा ससूत्रा दवरकसहिता सूची कचवरे पतितापि न नश्यति तथा जीवः ससूत्रो ज्ञानसहितः सन् संसारगतोऽपि न नश्यति, पुनर्धर्मं लभते एव २ । ' णाणं गिण्हइ णाणं, गुणेइ गाणेण किणइ किच्चाई | भवसंसारसमुद्द, णाणी णाणे ठिओ तरह ' || ३ || ज्ञानं गृह्णाति ज्ञानं गुणयति ज्ञानेन कार्याणि कुरुते । भवेषु संसरणं भवसंसारस्तद्भवसमुद्रं । तस्मात् ज्ञान्येव वन्द्यः ३ । ननु प्राग्गाथायां द्रव्यभावाभ्यां सुश्रमणो वन्द्यः इत्युक्तः भावश्चरणं, तस्माचारित्र्येव वन्द्य इत्याशङ्कय ज्ञाननय एवाह ' कामं ' कामं चरणं भावो, तं पुण णाणसहिओ समाणेई । न य नाणं तु न भावो, तेण र णाणि पणिवयामो। ११४८। कामं इति संमतं यत् चरणं चारित्रं भावो भावलिङ्गं तत्पुनर्ज्ञानसहितः समापयति निष्ठां नयति, न च ज्ञानं तु न भावः किन्तु ज्ञानमपि भाव एव । तेन हेतुना रः पादपूर्वौ ज्ञानिनं प्रणिपतामः ॥। ११४८ ॥ यतश्चाज्ञानिनो वाह्यकरणवतोऽपि न चरणं ' तम्हा ' For Private & Personal Use Only लिङ्गमात्रनतौ दोषाः ॥ ॥ ११ ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy