________________
मनसि कृत्वा नमतु अन्यसाधुगुणं तेष्वारोप्य नमतोऽपि दोष एव ।। ११४४ ॥ 'जह' जह वेलंबगलिंग, जाणंतस्स नमओ हवइ दोसो।निद्धंधसमिय नाऊण, वंदमाणे धुवो दोसो ।११४५। ।
विडंबकेन भाण्डादिना कृतलिङ्गं जानतो नमतो दोषः प्रवचनहीलादिरूपो भवति निद्धंधसं शासनोपघातनिरपेक्षं 'इय' एवं 'नाउण' ज्ञात्वा वन्द्यमाने ध्रुवो दोष आज्ञाभजादि । पाठान्तरे 'निबंधसंपि नाऊण वंदमाणस्स दोसाओ' ॥ ११४५॥ चो० 'कह' (गाहा) एषा क्षेपकगाथा (स्थानशुद्ध्यभावेन नात्र निबद्धा)। जिनं केवलिनं देवाः सुविहितस्य नेपथ्यं वेषः तत्परिहीणं न नमति । आ० द्रव्यभावलिङगाभ्यामेव नतियोग्यः, यतः 'रुप्पं' रुप्पं टंकं विसमा-हयस्करं नवि रूवओ छेओ। दोण्हंपि समाओगे, रूवो छेयत्तणमुवेइ ॥ ११४६ ॥
चतुर्भङ्गी रूप्यमशुद्धं टंक टंकनिका विषमाहताऽक्षरं विषमं कुटं आह तं पतितमक्षरं यत्र तत् इत्याद्यो भङ्गः । नापि च नैव स रूपकछेको भव्यः । १ रूप्यमशुद्धं टंक टंकनिका समाहताक्षरं २ रूप्यं शुद्धं टंक विषमाहताक्षरं ३ रूप्यं शुद्धं टक समाहताक्षरं ४ । इह रूप्यं भावलिङ्ग टंक द्रव्यलिङ्गं । 'दोण्हं.' द्वयो रूप्यसमाक्षरयोोंगे रूपकः छेकत्वं श्लाध्यत्वमुपैति । इहाये भङ्गे तापसाः १। द्वितीये पार्श्वस्थादयः २। तृतीये प्रत्येकबुद्वाः अन्तर्मुहर्तमानं कालमग्रहीतद्रव्यलिङ्गत्वात् ३ । चतुर्थे सुसाधवः ४ । ॥११४६।। 'रुपं ' रुप्पं पत्तेयबुद्धा, टंकं जे लिंगधारिणो समणा। दवस्स यभावस्स य, छेओसमणो समाओगो ॥११४७॥
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org