SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पाक्षिकं क्षमयितुं । ' पन्नरसहिं० ' पञ्चदशानां दिवसानां पञ्चदशानां रात्रीणां अभ्यन्तरे इति शेषः । इह तिथयः पञ्चदशैव स्युः । तिथ्यर्द्ध पूर्व दिनः पाश्चात्यं तु रात्रिः । एवं चतुर्मासके चतुर्णां मासानां अष्टानां पक्षाणां विंशत्युत्तरशतदिनरात्रीणां अभ्यन्तरे इति, सांवत्सरे तु द्वादशानां मासानां चतुर्विंशतिपक्षाणां षष्यधिकत्रिशतरात्रिदिनानां मध्ये इति शेषः । अत्र रात्रिशब्दस्यादानं रात्रौ प्रतिक्रमणकृतेः अन्यथा दिनस्यैव प्राधान्यं । तत्र त्रिंशतिथिभिर्मास इत्यादि । वार्षिकेऽधिकमासो मासनामादियुक्त्या मध्य एवान्तर्भूतस्तेन ३६० तिथयः । अधिकमासक्षेपे तु ३९० तिथयः स्युः । परं मासस्याभिन्नत्वात्तिथयोऽप्यधिकमासस्याभिन्ना एव विवक्षिताः, तेन व्यवहाराद् द्वादश मासा उच्यन्ते । व्यवहारोऽपि मान्यः यतो व्यवहारादेव वन्दनादिव्यवहारोऽस्ति, अन्यथा शिष्योऽपि मुक्तौ गुरुरपि दुर्गतौ गच्छन् श्रूयते । ' जं किंचि, यत्किञ्चित्सामान्यतोऽशेषं वा 'अपत्तियं 'ति प्राकृतत्वादप्रीतिकं अप्रीतिमात्रकं 'परपत्तियं' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकं उपलक्षणादात्मप्रत्ययं वा भवद्विषये मम जातं, भवतां वा मया जनितं इति शेषः, तस्य मिथ्या मे दुष्कृतं इति सम्बन्धः । तथा भक्ते भोजने पाने विनयेऽभ्युत्थानादिरूपे, वैयावृत्ये औषधपथ्यदानादिनोपष्टम्भकरणरूपे, आलापे सज्जल्पे, संलापे मिथः कथायां, उच्चासने समासने च, अन्तरभाषायां पूज्यस्य वदतोऽन्तरे वचने, एवं गुरुवाक्यानन्तरमेव तस्यैवार्थस्य भाषणं उपरिभाषायां, यत्किञ्चित्समस्तं सामान्यतो वा, मम विनये परिहीणं शिक्षारहितत्वं जातं सूक्ष्मं वा बादरं वा यूयं जानीथ यत्कि - ञ्चिदहं पुनर्न जानामि मूढत्वात्तस्य दोषस्य मिध्यादुः कृतं, इमं दोषं त्यजामीत्यर्थः । अत्र गुरुवाक ' अहमवि खामेमि तुम्भे' अहमपि युष्मान् क्षमयामि एवं क्षामणानि कृत्वा जघन्येन त्रीन् उत्कृष्टं सर्वान् क्षमयेत् । ततो गुरुरुत्थायोर्ध्वस्थ एव क्षमयति । For Private & Personal Use Only 10www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy