SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥१६०॥ Jain Education Inter स्तुतयो नियमेनोच्यन्ते । केचिदन्या अपि पठन्ति । न च तत्र नियमः । ततः संडासकौ प्रमृज्योपविशन्ति मुखपोतिं प्रतिलिख्य देहं प्रमार्ण्य वन्दनं ददति । किमर्थमित्याह - ' सुक सुकयं आणत्तिं पिव, लोगे काऊण सुकयकिइकम्मं । वतिया थुईओ, गुरुथुइगहणे कए तिन्नि ॥ १५१९ ॥ , यथा राज्ञो नरा आदेशे जाते नत्वादिष्टं कुर्युः, कृत्वा नत्वा च विज्ञप्तिं कुर्युः, एवमत्र लोके सुष्ठु कृता माज्ञप्तिमित्र गुर्वादेशाद्वन्दनपूर्व चारित्रादिविशोधिं कृत्वा पुनः सुष्ठु कृतकर्माणः सन्तो गुरोर्निवेदयन्ति भगवं कयं तं पेसणं आयविसोहिकारणं ति, चन्दनं दच्चोत्कटिका रचिताञ्जलयस्तिष्ठन्ति, वृत्तौ चूर्णौ तु सीसे अंजलिं काऊण भणंति, गुरोः स्तुतिग्रहणे आद्यस्तुतिकथने जाते सति विनयार्थं पश्चाद्वर्द्धमानवर्णादिभिस्तिस्रः स्तुतीर्भणन्ति । ततः प्रादोषिककालं लान्ति । एवं दैवसिकं गतं ।। १५१९ ।। रात्रिके तु आदौ सामायिकं कर्षित्वा चारित्रशुद्धयै पञ्चविंशत्युच्छ्वासकायोत्सर्गं कृत्वा नमस्कारेण पारयित्वा दर्शनशुद्ध्यै चतुर्विंशतिस्तवं पठित्वा पञ्चविंशत्युच्छ्वासकायोत्सर्गं च कृत्वा नमस्कारेण पारयित्वा श्रुतज्ञानशुद्ध श्रुतज्ञानस्तवं कर्षित्वा तच्छुद्ध्यै कायोत्सर्गं कुर्युः । तत्र प्रादोषिकं स्तुतिकथनाद्यं अधिकृत कायोत्सर्गपर्यन्तं अतिचारं ध्यायन्ति । ननु रात्रौ आद्य एव कायोत्सर्गेऽतिचारं किं न ध्यायन्ति ? उच्यते ' निद्दा ' निद्दामत्तो न सरइ, अइयारं मा य घट्टणंऽणोऽन्नं । किइअकरणदोसा वा, गोसाई तिन्नि उस्सग्गा ॥ १५२० ॥ निद्रया मत्तोऽभिभृतो राज्यतिचारं सुष्ठु न स्मरेत्तेनाद्योऽतीचारचिन्तनाय कायोत्सर्गो न कार्यः, तथा क्षामणककाले For Private & Personal Use Only कायोत्स गाध्ययने प्रतिक्रमणविधिः ॥ ॥१६०॥ ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy