SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ अहयपि ॥ २ ॥ सबस्स जीवरासिस्स, भावओ धम्मनिहियनियचित्तो । सवं खमावइत्ता, खमामि सबस्स अहयंपि' ॥३॥ आचार्योपाध्यायान, शिष्यान् , साधर्मिकान , कुलं एकाचार्यसन्तानं, गच्छं बह्वाचार्यसन्तानं वाऽऽश्रित्य ये मया कषायाः कृताः, सर्वास्त्रिविधेन मनादिना क्षामयामि । ' सबस्स.' शीर्षेऽञ्जलिं हस्तयोजनं कृत्वा सर्वस्य श्रमणसङ्घस्य भगवतः सर्वामाशातनां क्षामयित्वाऽहमपि तस्य सर्वस्य शिक्षा ददतो वैयावृत्त्यं कारयतः क्षमे सम्यक् सहे। 'सबस्स.' सर्वस्य जीवराशेः सर्व मन्तं धर्मे निहितनिजचित्तः सन् क्षमयित्वाऽहमपि सर्वस्य तस्य क्षमे तत्कृतदोषं सहे, क्रोधं शान्ति प्रापये इत्यादि । 'दरालोइयदप्पडिकंते य काउस्सग्गे'त्ति विस्मृत्यादिना सम्यगालोचितं न स्यादतः पुनः कृतसामायिकाश्चारित्रविशुद्ध्यर्थ कायोत्सर्ग कुर्युः । तथा वृत्तित्रचूादिष्वदृष्टा काप्यादर्श गाथा दृश्यते 'दुन्नि य हुन्ति चरित्ते दंसणनाणे य एकमेक्को य । सुयखित्तदेव याए थडअंते पंचमंगलया ।। चारित्रशोधये द्वौ उद्योतकरौ स्तः, दर्शनज्ञानयोरेकैक उद्योतकरः स्यात् । श्रतक्षेत्रदेवतयोः | स्तुतेरन्ते पञ्चमङ्गलं नमस्कारो भण्यः, परं उत्तरार्द्धार्थः सिद्धान्ते मया न ज्ञातोऽस्ति, स्तुतिशब्दो देव्या दुर्घट इति ॥ १५१७ ॥ 'एस' एस चरित्तुस्सग्गो,दंसणसुद्धीइ तइयओ होइ।सुयनाणस्स चउत्थो,सिद्धाणथुई अकिइकम्मं ॥१५१८॥ ___ एष चारित्रशुद्धये मूलतो द्वितीय उत्सर्गः, दर्शनशुद्धये तृतीय उत्सर्गः स्यात् , श्रुतज्ञानस्य चतुर्थः, सिद्धानां स्तुतेरनु । १ दीपिकाकारस्यैतन्मन्तव्यं दृश्यते । । Jain Education inte For Private & Personal Use Only Avww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy