________________
Jain Education Inte
तस्मात् ( यतः ) कायोत्सर्ग मोक्षपथाऽर्हता देशितं उक्तं ज्ञात्वा धीरा दिवस तिचारपरिज्ञानार्थाय कायोत्सर्गं तिष्ठन्ति ।। १४९२ ।। अतिचारान् दर्शयति ' सय
सयणासणणपाणे, चेइयजइ सेज्जकायउच्चारे। समितीभावणगुत्ती, वितहायरणांम अइयारो ॥१४९३॥
शयनीयं संस्तारकः, आसनं पीठादि । शयनासनान्नपानानां वितथाऽऽचरणेऽप्रतिलेख्याप्रमृज्याविधिना चादाने, तथा चैत्यविषये वितथाऽऽचरणेऽविधिवन्दनेऽवन्दने, वा यतिविषये विनयाद्यकरणे, शय्यायां वसतौ वितथाचरणेऽप्रमार्जनादौ रूयादियुक्तया ( क्ता ) दौ स्थाने वा, कायिकी मूत्रं उच्चारो विट् तयोर्वितथाचरणेऽस्थण्डिलेऽविधिव्युत्सर्जने, तथा समितिषु वितथाऽऽचरणेऽकरणेऽविधिकरणे वा, एवं भावनासु ( द्वादशसु ) उक्तासु पञ्चविंशतिषु वा, गुप्तिषु वितथाऽऽचरणेऽकरणादिनाऽतिचारः स्यात् || १४९३ || अथ कायोत्सर्गे चिन्त्यमाह 'गोस
गोसमुहणंतगाई आलोए, देखिए य अइयारे । सब्वे समाणइत्ता, हियए दोसे ठविज्जाहि ॥१४९४॥
गोसं प्रभातं, मुखानन्तकं मुखवस्त्रिका, आदिशब्दाच्छेषोपकरणादि । ततः प्रभातादारभ्य मुखवस्त्रिकादीनामविधिप्रत्युपेक्ष णादीन् दैवसिकान तिचारानवलोकयेत् । ततः सर्वातिचारान् समाप्य बुध्ध्याऽऽलोकनेन समाप्तं नीत्वा दोषान् हृदये स्थापयेत् ।। १४९४ ।। ' काउं
काउं हिअर दोसे, जहकम्मं जा न ताव पारेइ। ताव सुहुमाणुपाणू, धम्मं सुक्कं व झाइज्जा ॥१४९५॥
For Private & Personal Use Only
www.jainelibrary.org