SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥१५३॥ Jain Education Inten वातनिसर्गोऽधोवातः, भ्रमिः फेरः, पित्तमूर्च्छा, तृतीया पञ्चम्यर्थे, तत एतेभ्योऽन्यत्र व्यापारे कायोत्सर्गः । तथा सूक्ष्मैरसञ्चारैर्दृश्यादृश्यैरङ्गस्पन्दरोमाञ्चाद्यैः, सूक्ष्मैः खेलस्य श्लेष्मणः सञ्चारैः सूक्ष्मैर्दृष्टिसञ्चारैर्निमेषादिभिः, एवमादिभिराकारैः प्रकारैः विद्यमानैरपि । आदिशब्दादग्निछिन्दन कस्तेनसर्पादिभिः आपद्भिः स्थानं मुक्त्वाऽन्यत्र कायोत्सर्ग करणेऽभग्नः सर्वमङ्गेनाविनष्टः, अविराधितो देशतो देशोऽप्यभग्नो मे कायोत्सर्गों भूयात् । कथमित्याह यावदतां भगवतां नमस्कारेण न वाचिकेन पारयामि तावत्कार्यं देहं स्थानेन ऊर्ध्वस्थानेन मौनेन वाग्रोधेन ध्यानेन मनोरोधेन आत्मानं स्वकायं व्युत्सृजामि, विशेवेणोत्प्राबल्येन त्याज्यरूपतया सृजामि हरामि नमस्कारपाठं यावल्लम्बितभुजो निरुद्धा सध्ध्याने तिष्ठामीत्यर्थः । परः प्राह- कायोत्सर्गो न कार्यो निःप्रयोजनत्वात्, गुरुराह-नैवं यतः 'काउ ' ' परि ' काउस्सग्गंमि ठिओ, निरेयकाओ निरुद्धवइपसरो । जाणइ सुहमेगमणो, मुणि देवसियाइ अइयारं ॥ (प्र०) परिजाणिऊण यजओ, संमं गुरुजणपगासणेणं तु । सोहेइ अप्पगं सो जम्हा य, जिणेहिं सो भणिओ ॥ (प्र०) गाथाद्वयमन्यकृतं । कायोत्सर्गे स्थितो निरेजकायो निश्चलकायो निरुद्धवाक्प्रसरो मुनिर्देवसिकाद्यतिचारं एकाग्रमनाः सन् सुखं जानाति । परिज्ञाय च सम्यग्गुरुजनप्रकाशनेन तुशब्दात्तदादिष्टतपः करणेन स आत्मानं शोधयति निर्मल करोति । ततोऽतिचारपरिज्ञानाय कायोत्सर्गः कार्यः यस्माजिनैः कायोत्सर्गो भणितः ॥ १-२ ॥ ततः 'काउ' काउस्सग्गं मुक्खपहदेसियं, जाणिऊण तो धीरा । दिवसाइयारजाणणट्टयाइ, , ठायंति उस्सग्गं ॥१४९२॥ For Private & Personal Use Only कायोत्सर्गाध्ययने अन्नत्थ सूत्रव्याख्या ॥ | ॥१५३॥ ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy