________________
Jain Education Inter
कायोत्सर्गे आसनविशेषे स्थातुमिच्छामि, 'जो मे देव० ' इत्यादि, अर्थः प्राग्वत्, स्थाने स्थाने ' इच्छामि' इति स्वाशयज्ञापनं मनःशुद्धिस्पष्टतायै, सा चातीचारशुद्ध्या, सा च समतया इति सामायिकसूत्रोक्तिः, तस्य दुःकृतं मे मिथ्या - लीकं शुभध्यानादस्तु । ' तस्सुत्तरी '
तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घा - यणट्ठाए ठामि काउस्सग्गं । अन्नत्थ ऊसलिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो अविराहिओ हुज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि । ( सूत्रम् )
तस्यानन्तरोक्तश्रमणयोगसङ्घातस्य खण्डनादिनाऽधः कृतस्योत्तरीकरणेन संस्कारकरणादूर्श्वीकरणेन हेतुभूतेन 'ठामि काउस्सग्गं' इति क्रियायोगः । उत्तरीकरणं च प्रायश्चित्तकरणेन स्यात् । तच्च प्रायश्चित्तं विशोधिरपराधमलिनस्यात्मनः क्षालनं, तस्याः करणेन स्यात् सा विशोधिरपि विशल्यकरणेन मायादिशल्यरहितेन स्यात्ततः पापानां कर्म्मणां निर्धातनार्थाय 'ठामि' कुर्वे कायोत्सर्ग, ठामिशब्दस्यानेकार्थत्वात् कुर्वे इत्यर्थो ज्ञेयः । किं सर्वथा कायस्योत्सर्गः १ नैवं अन्यत्रोच्छ्वसितेन उच्छ्वासं मुक्त्वाऽन्यव्यापारमाश्रित्य कायोत्सर्गः। एवं निःश्वसितं निःश्वासः तस्मादन्यत्र कायोत्सर्गः, कासितं, क्षुतं, जृम्भायितं, उद्गारितं,
For Private & Personal Use Only
www.jainelibrary.org