SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ सुप्तानां चित्तं । 'ओहाडियं 'ति स्थगितं अव्यक्तं अस्पष्टभावं प्रायः स्यात् ॥ १४७७ ॥ नन्वीदृशोऽपि चित्तस्य ध्यान. त्वमस्तु, नैवं, यतः 'गाढा' गाढालंबणलग्गं चित्तं वुत्तं निरयणं झाणं । सेसं न होइ झाणं, मउअमवत्तं भमंतं वा ॥१४७८॥ गाढालम्बनलग्नं निरेजनं निःकम्पं चित्तं ध्यानमुक्तं । मृद भावनायां अपटु, अव्यक्तं प्रागुक्तं, भ्रमत् अनवस्थितं वा | चित्तं ध्यानं न स्यात् ।। १४७८ ।। ननु मृद्वादि चित्तं ध्यानं न स्याद्वस्तुतोऽव्यक्तत्वात् , ततः कथं पश्चादपि वक्तव्यता - (व्यक्तता) १, उच्यते ' उम्हा' उम्हासेसो वि सिही, होउं लद्धिंधणो पुणो जलइ । इय अवत्तं चित्तं, होउं वत्तं पुणो होइ ॥१४७९॥ | ___ उष्मशेषोऽप्युष्णताशेषोऽपि शिखी अग्निः पुनर्लब्धेन्धनो ज्वलतीत्यव्यक्तमपि चित्तं भूत्वा पुनर्व्यक्तं स्यात् ॥ १४७९ ॥ | प्रसङ्गं (प्रासङ्गिकं ) उक्त्वाऽथ ध्यानाशङ्कामाह 'पुत्वं' पुत्वं च जं तदुत्तं, चित्तस्सेगग्गया हवइ झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥१४८०॥ ननु त्रिधा ध्याने स्थापिते पूर्व च यदुक्तं, चित्तस्यैकाग्रता ध्यानं स्यात, अनेकाग्रतामापन बहुव्यापार तच्चित्तमेवोच्यते, न तु ध्यानं इति, ततोऽत्र विरोधः, न वाकायध्यानयोरुक्तेः ।। १४८० ।। गुरु: 'मण' आ० मणसहिएण उ काएण कुणइ वायाइ भासई जं च । एयं च भावकरणं, मणरहियं दत्वकरणं च ॥ Jain Education inte For Private & Personal Use Only Tww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy