________________
आवश्यक
निर्युक्ति
दीपिका ||
॥१४८॥
Jain Education Int
यत्तच्चिन्तनपरः, द्रव्यतो नोच्छ्रितो भावत उच्छ्रितो निविष्टः सुप्तो वा धर्मादिध्यानी, न द्रव्यतो न भावत उच्छ्रितो निविष्टो निर्विण्णो वार्त्तादिध्यानी । एवं निषण्णनिर्विण्णयोरपि द्रव्यभावाभ्यां चतुर्भग्यौ ज्ञेये यथा द्रव्यतो निषण्णो भावान्निविष्टः प्रमादी १, द्रव्यतो निषण्णो न भावान्निविष्टः सुध्यानी २, न द्रव्यतो निषण्णो भावादुः सुप्तो वा प्रमादी ३, न द्रव्यतो न भावादूर्ध्वः सुप्तो वा सुध्यानी ४, एवं निर्विण्णेऽपि ॥ १४५६ || कायोत्सर्गगुणान् प्रसंगेनाऽऽह ' देह ' देहमइजडसुद्धी, सुहदुक्खतितिक्खया अणुप्पेहा । झायइ य सुहं झाणं, एयग्गो काउसग्गंमि ॥ १४५७॥ देहजाड्यशुद्धिः श्लेष्मादिहानौ, मतिजाड्यशुद्धिस्तथास्थस्योपयोगविशेषात्सुखदुःखयोस्तितिक्षा सहनं, अनुप्रेक्षाऽनित्यत्वादिचिन्ता च, तथाविधस्य स्यात् । एकाग्रः एकचित्तः कायोत्सर्गे शुभं ध्यानं ध्यायति ॥ १४५७॥ ध्यानस्यैव स्वरूपमाह 'अंतो' अंतोमुहुत्तकालं, चित्तस्सेगग्गया हवइ झाणं । तं पुण अहं रुदं, धम्मं सुकं च नायबं ॥ १४५८ ॥
चित्तस्यैकाग्रता शुशुभे चार्थेऽन्तर्मुहूर्त्त कालमूनां द्विघटीं यावन्मानसं ध्यानं तच्चतुर्धाऽऽर्त्तादिभेदात् || १४५८ || 'तत्थ' तत्थ य दो आइल्ला, झाणा संसारवडणा भणिया । दुन्नि य विमुक्खहेऊ, तेसिऽहिगारो न इयरेसिं ॥ १४५९ ॥
द्वे ध्याने संसारवर्धनेऽर्हद्भिर्मणितेऽन्त्ये द्वे विमोक्षस्य कर्मक्षयस्य हेतू, तयोरधिकारोऽत्र कायोत्सर्गे नेतरयोः ।। १४५९ ।। ' व ' ' चेय '
संवरियासवदारा, अबाबाहे अकंटए देसे । काऊण थिरं ठाणं, ठिओ निसन्नो निवन्नो वा ॥ १४६० ॥
For Private & Personal Use Only
कायोत्सर्गाध्ययने
कायोत्सर्ग
गुणाः ॥
॥१४८॥
www.jainelibrary.org