________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥१४३॥
Jain Education Inter
अक्खे वराडवा, कट्ठे पुत्थे य चित्तकम्मे य । सब्भावमसब्भावं, ठवणाकायं वियाणाहि ॥ १४२७॥ अक्षे चन्दनके, वराटके वा, कपर्दे काष्ठे, पुस्ते लेप्ये, चित्रकर्मणि च, सतो निजाकारेण विद्यमानस्य भावः सद्भावस्तथ्य इति, असद्भावोऽतथ्य इति पूर्वाद्विपरितस्तमाश्रित्य स्थापनाकायः || १४२७ ।। सद्भावादिस्थापनामाह 'लिप्प ' लिप्पगहत्थी हत्थित्ति, एस सब्भाविया भवे ठवणा । होइ असम्भावे पुण, हत्थित्ति निरागिई अक्खो १४२८
लेप्यकहस्ती हस्तीति स्थाप्यते एषा सद्भाविका स्वाकारसहिता सद्भावस्थापना । असद्भावे पुनर्हस्तीति निराकृतिर्हस्त्याकारशून्योऽक्षोऽयं हस्तीति स्थापितः, एवं स्थापनाकायोऽपि ज्ञेयः ।। १४२८ ।। अथ शरीरकाय: ' ओरा ' ओरालियवेविय - आहारगतेयकम्मए चेव । एसो पंचविहो खलु, सरीरकाओ मुणेो ॥ १४२९ ॥
उदारैः स्थूलैः पुद्गलैर्भवमौदारिकं १, विशिष्टक्रियायां प्रयत्नविशेषे भवं वैक्रियं २, श्रुतकेवलिना कार्य आह्रियते पुद्गलैनिष्पाद्यत इत्याहारकं ३, तेजोणुभिर्जातं तैजसं ४, कर्मणा भवं कार्मणं ५ । शीर्यन्त इति शरीराणि, शरीराण्येव पुद्गलराशित्वाच्छीर्यन्त इति कायः || १४२९ ।। अथ गतिकायः ' चउ '
सुविसु देहो, नेरइयाईण जो स गइकाओ। एसो सरीरकाओ, विसेसणा होइ गइकाओ ॥ १ (प्र०) चतसृष्वपि गतिषु नैरयिकादीनां यो देहः स गतिकायः । नन्वेष शरीरकाय एव : न, उच्यते शरीरकायः सामान्येन शरीराण्येव विवक्षितान्यत्र गत्यपेक्षया विशेषणादेहो गतिकायः स्यात्, गाथाऽन्यकृता ॥ १ ॥ अथवाऽऽन्तरगतौ कायो
For Private & Personal Use Only
कायोत्सगध्ययने
काय
निक्षेपाः ॥
॥१४३॥
www.jainelibrary.org