________________
जारिसेण मित्ति० तिलाऽपि तद्गन्धिकाः कुसुमगन्धमाजः स्युः। काप्येषा गाथा व्यत्तया(त्ययेन) दृश्यते । परं वृत्तौ चूणों चात्रास्ति(च एवमेवास्ति) ॥ ११२० ॥ चोयग-ननु पार्श्वस्थादिषु वसन्तो निर्मलस्य कुतो दोषः, यतः ' सुचि' सुचिरंपि अच्छमाणो, वेरुलिओ कायमणीयउम्मीसो।नोवेइ कायभावं,पाहण्णगुणेण नियएणं॥११२१॥ ___ वैडूर्यः काचमणिकोन्मिश्रः सुचिरमपि तिष्ठन् काचभावं नोपैति । निजकेन प्राधान्यगुणेन नैर्मल्यगुणेन ॥ ११२१ ॥
आचार्यः ‘भावु' | भावुगअभावुगाणिय,लोए दुविहाणि होति दवाणि।वेरुलिओ तत्थमणी,अभावुगोअन्नदव्वेहि।११२२ । ____भाव्यते परगुणैरिति भाव्यानि प्राकृतत्वाद्भावुगाणीति । यद्वा परसङ्गात्तद्गुणानि भवन्तीति भावुकानि च, तत्र वैडूर्योऽभावुकः ॥ ११२२ ॥'जीवो'
जीवोअणाइनिहणो, तब्भावणभाविओ य संसारे। खिप्पं सोभाविजइ,मेलणदोसाणुभावेणं॥११२३॥ ___जीवोऽनादिनिधन आद्यन्तरहितस्तया पार्श्वस्थाद्याचरितप्रमादभावनया भावितः संसारे वर्त्तते । ततः स क्षिप्रं असद्भावका नया भाव्यते, केन, मील्यते इति मेलनं परवस्तु तद्दोषानुभावेन ॥ ११२३ ॥ ‘अंब' अंबस्स य निंबस्स य, दुण्हंपि समागयाइं मूलाइं। संसग्गीइ विणटो, अंबो निबत्तणं पत्तो ॥ ११२४॥
द्वयोरपि समागते मूले निम्बरसभावितजलस्य संसर्गसङ्गत्या ॥ ११२४ ॥ ' सुचि'
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org