________________
एवमेव प्रस्रवणे द्वादश, सर्वाणि चतुर्विशतिरुपयुक्तः प्रतिलिखेत् । जघन्यं हस्तान्तरे, तत्र त्रीणि कालग्रहणस्य स्थण्डिलानि । अथ स्थण्डिलप्रेक्षानन्तरं सूरोऽस्तमुपयाति ॥ १३५९ ॥ तत आवश्यकं कुर्युस्तच्च द्विधा-सव्याघातं निाध्यातं च 'अह' | अह पुण निवाघाओ, आवासंतो करंत सवेऽवि। सड्ढाइकहणवाघाययाइ, पच्छा गुरू ठंति ॥१३६०॥
____ यदि निर्व्याघातं, ततः सर्वे गुरुयुक्ता आवश्यकं कुर्वन्ति, अथ श्राद्धधर्मकथनादिव्याघाते गुरुर्निषद्याभृच्च पश्चादेवसि। कातिचारकायोत्सर्गे तिष्ठतः ॥ १३६० ॥'सेसा'
सेसा उ जहासत्तिं, आपुच्छित्ताण ठंति सट्टाणे। सुत्तत्थकरणहेडं, आयरिए ठियंमि देवसियं ॥१३६१॥ ____ शेषास्तु यथाशक्तीति स्वां कायोत्सर्गकरणशक्ति ज्ञात्वा, गुरुमापृच्छय, गुरुपाचे यथारत्नाधिकं स्वस्थानं एत्य श्रीवत्साकारमण्डल्यां तिष्ठन्ति, तत्र मण्डलीस्थापना (O)। तत्र सामायिक भणित्वा सूत्रार्थस्मरणहेतुं पूर्वमेवोत्सर्गे तिष्ठन्ति, तत्र गुरुर्मध्येन गत्वा स्वस्थाने तिष्ठति, तत्र ये वामतस्तेऽनन्तरं सव्येन गत्वा स्वस्थाने तिष्ठन्ति, ये दक्षिणतस्तेऽनन्तरापसव्येन गत्वा तिष्ठन्ति, गुरौ सामायिकं कृत्वा कायोत्सर्गस्थे प्राक्कायोत्सर्ग( स्थाः दैवसिकातिचारं ध्यायन्ति, अन्ये भणन्ति-गुरौ सामायिकं कुर्वति प्राकस्थिताः पुनः सामायिकं कुर्युः ॥ १३६१ ॥ 'जो हु' जो हुन्ज उ असमत्थो, बालो वुड्डो गिलाण परितंतो। सो विकहाइ विरहिओ, अच्छिज्जा निजरापेही॥
Jain Education in
tal
For Private & Personal Use Only
TAlwww.jainelibrary.org