SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आवश्यकता नियुक्तिदीपिका॥ प्रतिक्रमणाध्ययने अस्वाध्या यिकनियुक्तिः॥ ॥१२४|| प्रथममस्वाध्यायिकं सर्वत्र स्थानासनादिषु प्रसरति, तस्मिंश्च प्रतिलेखनास्वाध्यायादिकाः क्रिया न कार्याः । अन्येषां तु चतुरस्वाध्यायादीनां चतुर्तृवदध्यायरथ्यायामेवाऽपरिभवेन प्रचारः स्वाध्यायो न कार्य इत्यर्थः, 'आवस्सगादि उक्कालियं पढि. जइ' ॥ १३२३ ॥ अथ 'महिया' इत्यादिगाथया भाष्यं-' महि' महिया उ गब्भमासे, सच्चितरओ अ ईसिआयंबो । वासे तिन्नि पयारा, बुब्बुअ तव्वज फुसिए य ॥ २१९ ॥ महिका कार्तिकादिगर्भोत्पत्तिमासेषु पतन्त्येव सूक्ष्मत्वात्सर्वमकाय भावितं कुर्यात् । १ । व्यवहारसचित्तः पृथ्वीकाय आरण्यो वातोद्भूतरजो भण्यते, तस्येदं लक्षणं-' इसि०' ईषदातानं दिगन्तरेषु दृश्यते तन्नित्यपातेन दिनत्रयात् परतः सर्व पृथ्वीकार्य भावितं कुर्यात् , तत्रोत्पातशङ्कासंभवश्च २, भिन्नवर्षे त्रयः प्रकाराः, यस्मिन् वर्षति बुद्दाः स्युः स बुदुदवर्षः १, यत्र बुद्दा न स्युः स तद्वर्जः २, 'फुसिए' सूक्ष्मतुषाराः ३, एते क्रमात् त्रिपश्चसप्तदिनपरतः सर्वमकायभावितं कुर्युः ॥ २१९ ।। चतुर्धा परिहारं व्याख्याति 'दवे' दव्वे तं चिय दव्वं, खित्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे, मुत्तुं उस्सासउम्मेसे ॥ २२० ॥ तत्र द्रव्ये-तदेव महिकादि द्रव्यं, क्षेत्रे यत्र, काले यावचिरं पतति, भावे उच्छ्रासोन्मेषौ मुक्त्वा क्रियां न कुर्युः, स्थानादि ॥१२४॥ Jan Education inte For Private & Personal Use Only Staw.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy