________________
Jain Education Inte
जानपदा लोकाः साधवः, घोषणासमं सूत्रमस्वाध्याये स्वाध्यायप्रतिषेधकं ।। १३१९ ॥ ' थोवा '
थोवावसेस पोरिसिमज्झयणं, वावि जो कुणइ सो उ । णाणाइसाररहियस्स, तस्स छलणा उ संसारो ॥
स्तोका च शेषा पौरुषीति कालवेला वर्तते, एवं श्रुत्वाऽध्ययनमपिशब्दाद् व्याख्यां च यः करोति स जिनेन भवदण्डेन दण्ड्यते, तस्य संसारे छलना च स्याज्ज्ञानादिवैफल्यात् ।। १३२० || आद्यद्वारमाह-' महि '
महिया य भिन्नवासे, सच्चित्तरए य संजमे तिविहं । दवे खित्ते काले, जहियं वा जच्चिरं सव्वं ॥१३२१॥
महिका धूमरी १, भिन्नवर्षो बुदुदवर्षादि २, सचितरजोऽरण्यवातोद्भूतं पृथ्वीरजः ३, एतत् ' संजम 'त्ति संयमघाति त्रिघा, तथा त्रिभेदेऽपि चतुर्धा परिहारो 'दवे' द्रव्ये तदेव महिकादि द्रव्यं, क्षेत्रे यत्र, काले च यावच्चिरं पतति, तत्र 'सर्व' ति भावतः सर्वं भाषादि त्याज्यं ।। १३२१ ।। पञ्चविधास्वाध्यायत्यागे दृष्टान्ताः - ' दुरंगा दुग्गाइतोसियनिवो, पंचण्हं देइ इच्छियपयारं । गहिए य देइ मुलं, जणस्स आहारवत्थाई ॥१३२२ ॥
,
पञ्चानां नृणां कोऽपि नृपो वैरिदुर्गादानात्तुष्टः पुरे 'इच्छिय'त्ति-स्वेच्छाप्रचारं दत्ते, तैर्जनस्याऽऽहारवस्त्रादौ गृहीते मूल्यं दत्ते ।। १३२२ ।। ' इक्के ' इक्केण तोसियतरो, गिहमागहे तस्स सव्वहिं वियरे । रत्थाईसु चउण्हं, एवं पढमं तु सवत्थ ॥१३२३॥ तेष्वप्येकेन तोषिततरस्तस्य सर्वत्र गृहागृहादौ प्रचारं दत्ते, चतुर्णां रथ्यादिष्वेव तद्वालकान् दण्डयेदेवं पञ्चधास्वाध्याये
For Private & Personal Use Only
www.jainelibrary.org