SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ गुरोः पक्षाभ्यां यमलत्वे आसन्ने वा निषीदने, एवं तिस्रः, सर्वा नव ९, तथा गुरोः पूर्व गुरुपरिभोग्यजलाचमनकरणेन १०, गमनागमनयोगुरोः पूर्वमालोचने ११, रात्रौ विकाले निशीथे वा रत्नाधिकस्य वचोप्रतिश्रवण उत्तरादाने १२, कस्याऽप्यालाप्यस्य श्राद्धादेगुरोः पूर्वमालापकरणे १३, अशनादिकं पूर्व शिष्यस्याऽऽलोच्य पश्चाद्रत्नाधिकस्याऽऽलोचने १४ । १। एवं शिष्यस्याऽशनादि दर्शयित्वा ततो रत्नाधिकस्योपदर्शने १५, एवं निमन्त्रणे १६, 'खद्ध 'त्ति रत्नाधिकमनापृच्छय स्वेच्छयाs- न्यस्मै स्निग्धमधुरादिदानेऽथवा येन रत्नाधिकैन सहाऽऽहारं लाति स तमनापृच्छयाऽन्यस्मै भव्यदाने १७, 'आईयाण 'त्ति रत्नाधिकेन साधं भुञ्जानः स्निग्धादि खादति १८, सदा रत्नाधिकस्य व्याहरतोऽप्रतिश्रवणे १९, 'खद्धति यत्ति रत्नाधिकं प्रति खरकर्कशनिष्ठुरभणने २०, गुरुवादितस्य तत्रगतस्यैवोल्लापदाने २१, तथा गुरुवादितः किमिति वदति २२, गुरोस्त्वमिति वक्ति यतो गुरौ वदति मस्तकेन वन्द इति वाच्यं २३, तज्जातेन प्रतिहन्ता स्यात् , यथा गुरुणोक्तोऽमुकं कुरु वक्ति यूयं कुरुत २४, रत्नाधिकस्य कथां कथयतो नो सुमनाः स्यात् २५।२। गुरोः कथाकथने नो स्मरसीति वक्ति २६, एवं कथाया आच्छेत्ता स्वयं कथयिता स्यात २७, पर्षदं मेत्ता-गुरोः कथयतः पृथक सभां कृत्वा वक्ति २८, अनुत्थितायां पर्षदि स्वदाक्ष्यज्ञायै तामेव कथां कथयति २९। [अत्र क्षेपकगाथा-' एवं एयं हेऊ, कहं कहतस्स नो सुमणो होइ । तजाएण हीलइ य, पुणो पुणो निहरं भणइ ' ॥१॥ अस्मिन्नर्थ एवमेतद्धेतुर्निमित्तं वर्त्तते, परं गुरुः कथयन्नस्तीति विमृश्य गुरोः कथां कथयतः सुमना न स्यात् २, तथा तजातेन हीलते गुरुं किं स्वयं न कुरुतेति २५ पुनः पुनर्निष्ठरं गुरोर्भणति चैषा विंशतितमाऽऽशातना] तथा 'संथारपायघट्टणे 'त्यादि गुरोः शय्यासंस्तारादि पादाभ्यां घट्टयति ३०, गुरुशय्यादौ स्थाता ३१, उच्चासने Jan Education in For Private & Personal Use Only Jww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy