________________
Jain Education Int
मिथिलायां नमी दाहज्वरे जाते देवीषु चन्दनं घर्षन्तीषु वलयखलखलशब्दे ऊचे मे कर्णघातः स्यादिति, ताभिरेकैकोत्तार एकैकस्मिन् करयोः स्थिते राजा वक्ति वलयानि न शब्दयन्ति, देवीभिरूचेऽपनीतानि ततः स दुःखाक्रान्तः परलोके मतिर्दध्यौ - अहो ! बहुषु दोषो नैकस्मिन् ततः सम्बुद्धः || २१३ ॥ ' बहु '
बहुयाणं सद्दयं सोच्चा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्वंतो मिहिलाहिवो ॥२१४ ॥
गन्धारदेशे पुरुष ( पुरिम ) पुरे पुरे नग्गती राड्, राजपाट्यां यान् चूतं वरं दृष्ट्वा मञ्जरीं ललौ शेषैर्यावत्काष्ठं कृतः, राजा निवृत्तोऽपृच्छत् क स चूतः १ मन्त्र्यूचेऽयं, सः कथमेवं जातः १ मन्त्रयाह यथा भवद्भिर्मञ्जरी तथा सर्वैरपि आत्तं । स दध्यौ एवं राज्यश्रीरप्यस्थिरैवेति प्रबुद्धः || २१४ || ' जो चू'
जो चूरुखं तु मणाहिरामं, समंजरिपल्लवपुप्फचित्तं ।
रिद्धिं रिद्धिं समुपेहिया णं, गंधाररायावि समिक्ख धम्मं ॥ २१५ ॥
यश्चृतवृक्षं, मंजर्यः पल्लवाः पुष्पाणि च मंजरीपल्लवपुष्पाणि तैः सह चित्रं पूर्वं दृष्ट्वमृद्धिं ततोऽनृ (ऋ)द्धिं समुत्प्रेक्ष्य ध्यात्वा गन्धारराजोऽपि धर्मं समैक्षिष्ट, प्रत्येकबुद्धानां दीक्षायां कार्त्तिकी राका, राकासमयेऽपि सदाफलाम्रत्वान्मञ्जर्यादि ॥ २१५ ॥
एते चत्वारोऽपि जातिं स्मृत्वा ग्राग्भवैवावाधीतैकादशाङ्गस्मर्तारः प्रव्रज्य विहरन्तः क्षितिप्रतिष्ठिते चतुर्द्वारे देवकुले यक्षचैत्ये क्रमात्पूर्वादिद्वारेषु विविशुर्व्यन्तरो भक्त्या क्रमाच्चतुर्मुखोऽभूत्तत्र करकण्डोवल्यात् कण्डूरस्ति तेन कण्डूयनं लात्वा शनैः
For Private & Personal Use Only
www.jainelibrary.org