________________
Jain Education Intera
ततोऽर्हता द्वेषाऽपि वर्णितानि । सोऽवग् मह्यं भावरत्नानि देहि । स्वाम्याह रजोहरणादीनि ततः प्रव्रज्य तान्यादात् । एते मूलगुणाः, उत्तरगुणप्रत्याख्याने वाणारस्यां नगर्यामनगारौ धर्मघोषधर्मयशसौ चतुर्मास्यां स्थितौ । मासे मासे पार - यतस्तुर्ये मासस्य पारणे मा नित्यवासोऽस्त्विति सूत्रार्थपौरुण्यौ कृत्वा तृतीयायां पात्राद्युद्धाय चलितौ शरचापतप्तौ तृषितौ | गङ्गामुत्तरत्ना मनसाऽप्यम्बु नेच्छतामुत्तारे गङ्गासुरी गोकुलानि विकुर्व्य साधू आकार्य दध्यादि दत्ते तावुपयुज्य तस्या रूपगन्धौ दृष्ट्वाऽलात्वा चलितौ तयाऽनुकम्पया वार्दलं कृतं तौ शीतवाताद्वायितौ ग्रामं प्राप्तौ ।। १३०५-६ ॥ उक्तमुत्तरगुणप्रत्याख्यानं, द्रव्यभावव्युत्सर्गों यथा-' कर
,
वस
करकंडु कलिंगेसु, पंचालेसु य दुम्मुहो । नमीराया विदेहेसु, गंधारेसु य णग्गती ॥ २०८ ॥ वसभेय इंदकेऊ, वलए अंबे य पुष्फिए बोही । करकंडुदुम्मुहस्सा, नमिस्स गंधाररन्नो य ॥ २०९॥
करकंडुः १, द्विमुखः २, नमी ३, निग्गतयं ( नग्गती) ४, प्रत्येकबुद्धाः ४ । भाष्यं, क्रमाद्बोधहेतवो वृषभ इन्द्रकेतुरिन्द्रस्तम्भो वलयं कङ्कणमात्रः पुष्पितो बोधिः प्रतिबोधः ।। २०८-९ ।। कलिङ्गेषु काञ्चनपुरे दधिवाहनपद्मावतीसुतः करकण्डुराड् गोकुलप्रियस्तेनैको गौः सुलक्षणो दुग्धैः पोषितो युद्धकुशलो दृष्टः, कालेन वार्द्धक्ये स एव पट्टकैर्धृष्यमाणो दृष्टस्ततो विषण्णो यन् जातिस्मृत्या प्रत्येकबुद्धोऽभूत्तदाह ' सेयं '
For Private & Personal Use Only
www.jainelibrary.org